SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 936 // दर्शन विनष्टसम्यग्दर्शना निश्चयतः, खल्वित्यपिशब्दार्थो निपातः, तस्य च व्यवहितः सम्बन्धस्तमुपरिष्टात् प्रदर्शयिष्यामः, न हु | 3. तृतीयलब्भा तारिसा दळू ति नैव कल्पन्ते तादृशा द्रष्टुमपीति, किं पुनर्ज्ञानादिना प्रतिलाभयितुमिति गाथार्थः॥११५२॥ सप्रसङ्गमध्ययनम् गतं ज्ञानद्वारम्, दर्शनद्वारमधुना, तत्र दर्शननयमतावलम्बी कृतिकर्माधिकार एवावगतज्ञाननयमत इदमाह वन्दना, नियुक्तिः नि०- जह नाणेणं न विणा चरणं, नादसणिस्स इय नाणं / न य दंसणं न भावो तेन र दिढेिपणिवयामो॥११५३॥ |1153-55 यथा ज्ञानेन विना न चरणं किन्तु सहैव, नादर्शनिन एवं ज्ञानम्, किन्तु दर्शनिन एव, सम्यग्दृष्टेर्ज्ञानं मिथ्यादृष्टेविपर्यास इति / तीर्थवादः वचनात्, तथा न च दर्शनं न भावः, किन्तु भाव एव, भावलिङ्गान्तर्गतमित्यर्थः, तेन कारणेन ज्ञानस्य तद्भावभावित्वा चारित्रपुष्टिः। दर्शनस्य ज्ञानोपकारकत्वाद् रेति प्राग्वत् दिट्ठि न्ति प्राकृतशैल्या दर्शनमस्यास्तीति दर्शनी तं दर्शनिनम्, प्रणमामः पूजयाम इति गाथार्थः॥११५३॥स्यादेतत्- सम्यक्त्वज्ञानयोर्युगपद्भावादुपकार्योपकारकभावानुपपत्तिरिति, एतच्चासद्, यतः नि०-जुगवंपि समुप्पन्नं सम्मत्तं अहिगमं विसोहेइ / जह कायगमंजणाई जलदिट्ठीओ विसोहंति // 1154 // युगपदपि तुल्यकालमपि समुत्पन्नं सञ्जातं सम्यक्त्वं ज्ञानेन सह अधिगम विशोधयति अधिगम्यन्ते परिच्छिद्यन्ते पदार्था येन सोऽधिगमः- ज्ञानमेवोच्यते, तमधिगमं विशोधयति-ज्ञानं विमलीकरोतीत्यर्थः, अत्रार्थे दृष्टान्तमाह- यथा काचकाञ्जने जलदृष्टी विशोधयत इति, कचको वृक्षस्तस्येदं काचकं फलम्, अञ्जनं- सौवीरादि, काचकं चाञ्जनं च काचकाञ्जने, अनुस्वारोऽत्रालाक्षणिकः, जलं- उदकम्, दृष्टिः- स्वविषये लोचनप्रसारणलक्षणा, जलं च दृष्टिश्च जलदृष्टी ते विशोधयत / इति गाथार्थः / / 1154 // साम्प्रतमुपन्यस्तदृष्टान्तस्य दान्तिकेनांशतः भावनिकां प्रतिपादयन्नाह नि०-जह 2 सुज्झइ सलिलं तह 2 रूवाई पासई दिट्ठी। इय जह जह तत्तरुई तह तह तत्तागमो होइ॥११५५॥ // 936 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy