SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 935 // भरतः प्रसन्नचन्द्रः साभ्यन्तरबाह्यमुदाहरणम्, आभ्यन्तरं भरतः, यतस्तस्य बाह्यकरणरहितस्यापि विभूषितस्यैवाऽऽदर्शक 3. तृतीयगृहप्रविष्टस्य विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नम्, बाह्यं प्रसन्नचन्द्रः, यतस्तस्योत्कृष्टबाह्यकरणवतोऽप्यन्तःकरणविकल- मध्ययनम् स्याधः सप्तमनरकप्रायोग्यकर्मबन्धो बभूव, तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः बझं भवे करणं ति छान्दसत्वादभूत्करणं दोषोत्पत्तिकारकं भरतस्य नाभूदशोभनं बाह्यं करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति, तस्मादान्तरमेव 1150-52 करणं प्रधानम्, न च तदालयादिनाऽवगन्तुं शक्यते, गुणाधिके च वन्दनमुक्तमिति तूष्णीभाव एव ज्यायान् इति स्थितम्, | ज्ञानतीर्थवादः उन्मार्गदेशका इत्ययं गाथाभिप्रायः॥ 1150 // इत्थं तीर्थाङ्गभूतव्यवहारनयनिरपेक्षं चोदकमवगम्यान्येषां पारलौकिकापायदर्शनाया-8 अद्रष्टव्याः / हाचार्य: नि०- पत्तेयबुद्धकरणे चरणं नासंति जिणवरिंदाणं / आहच्चभावकहणे पंचहि ठाणेहि पासत्था॥११५१॥ प्रत्येकबुद्धाः- पूर्वभवाभ्यस्तोभयकरणा भरतादयस्तेषां करणं तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, पाठान्तरं वा बोधिं नासिंति जिणवरिंदाणं कथं? - आहच्चभावकहणे त्ति कादाचित्कभावकथने- बाह्यकरणरहितैरेव भरतादिभिःकेवलमुत्पादितमित्यादिलक्षणे, कथं नाशयन्ति?- पञ्चभिः स्थानैः प्राणातिपातादिभिः पारम्पर्येण करणभूतैः पार्श्वस्था उक्तलक्षणा इति गाथार्थः // 1151 // यतश्च नि०- उम्मग्गदेसणाए चरणं नासिंति जिणवरिंदाणं / वावन्नदसणाखलु न हुलब्भा तारिसा दटुं / / 1152 // दारं / उन्मार्गदेशनया अनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवरेन्द्राणां सम्बन्धिभूतमात्मनोऽन्येषां च, अतः व्यापनदर्शनाःखलु // 935 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy