________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् ३.तृतीयमध्ययनम् वन्दना, नियुक्तिः 1948-49 ज्ञानतीर्थवादः उन्मार्गदेशका अद्रष्टव्या:। भाग-३ // 934 // प्रतिषेधः पञ्चानां कृतिकर्मेत्यादिग्रन्थाद्, इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो दुर्विज्ञेयम्, अतश्छद्मस्थस्तत्त्वतो गुणागुणान् आत्मान्तरवर्तिनः अजानन् अनवगच्छन् किं कुर्यात्?, वन्देत वा गुणहीनं कश्चित्, गुणाधिकं चापि वन्दापयेत्, उभयथाऽपि च दोषः, एकत्रागुणानुज्ञाप्रत्ययः अन्यत्र तु विनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान्, अलंवन्दनेनेति गाथाभिप्रायः॥ 1147 // इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह नि०- आलएणं विहारेणं ठाणाचंकमणेण य / सक्को सुविहिओ नाउंभासावेणइएण य॥११४८॥ B आलयः- वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहारः- मासकल्पादिस्तेन विहारेण, स्थानं- ऊर्ध्वस्थानम्, चकमणं- गमनम्, स्थानंच चङ्कमणंचेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्भुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुम्, भाषावैनयिकेन च विनय एव वैनयिकं समालोच्य भाषणेन आचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः // 1148 // इत्थमभिहिते सत्याह चोदकः नि०- आलएणं विहारेणं ठाणे चंकमणेण य।न सक्को सुविहिओ नाउं भासावेणइएण य॥ 1149 // आलयेन विहारेण स्थानचङ्कमणेन (स्थानेन चङ्कमणेन) चेत्यर्थः, न शक्यः सुविहितो ज्ञातुं भाषावैनयिकेन च, उदायिनृपमारकमाथुरकोट्टइल्लादिभिर्व्यभिचारात्, तथा च प्रतीतमिदं- असंयता अपि हीनसत्त्वा लब्ध्यादिनिमित्तं संयतवच्चेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथार्थः॥११४९॥ किंच नि०- भरहो पसन्नचंदो सल्भितरबाहिरं उदाहरणं / दोसुप्पत्तिगुणकरं न तेसि बझं भवे करणं // 1150 // // 934 //