SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 933 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः |1145-47 ज्ञानतीर्थवादः उन्मार्गदेशका अद्रष्टव्याः / नयतीत्यर्थः, किम्भूता सती?- योगमयुञ्जन्ती कायादिव्यापारमकुर्वती, ततश्चापरितुष्टाद्रङ्गजनान्न किञ्चिद्रव्यजातं लभत इति गम्यते, अपि तु निन्दां खिंसां च सा लभते रङ्गजनादिति, तत्समक्षमेव या हीलना सा निन्दा, परोक्षे तु सा खिंसेति गाथार्थः // 1144 // इत्थं दृष्टान्तमभिधाय दार्टान्तिकयोजनां प्रदर्शयन्नाह नि०- इय लिंगनाणसहिओ काइयजोगं न जुंजई जो उ / न लहइ स मुक्खसुक्खं लहइ य निंद सपक्खाओ॥११४५॥ इय एवं लिङ्गज्ञानाभ्यां सहितो- युक्तो लिङ्गज्ञानसहितः काययोगं कायव्यापारं न युङ्क्ते न प्रवर्तयति, यस्तु न लभते न प्राप्नोति स इत्थम्भूतःकिं?- मोक्षसौख्यं सिद्धिसुखमित्यर्थः, लभते तु निन्दा स्वपक्षात्, चशब्दात्खिसांच, इह च नर्तकीतुल्यः साधुः,आतोद्यतुल्यं द्रव्यलिङ्गम्, नृत्तज्ञानतुल्यं ज्ञानम्, योगव्यापारतुल्यं चरणम्, रङ्गपरितोषतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः, शेषं सुगमम्, यत एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः // 1145 // चरणरहितं ज्ञानमकिञ्चित्करमित्यस्यार्थस्य साधका बहवो दृष्टान्ताः सन्तीति प्रदर्शनाय पुनरपि दृष्टान्तमाह नि०- जाणंतोऽवि य तरिउंकाइयजोगं न जुंजइ नईए / सो वुज्झइ सोएणं एवं नाणी चरणहीणो॥११४६ / / जानन्नपि च तरीतुं यः काययोगं कायव्यापारं न युङ्क्ते नद्यां स पुमान् उह्यते ह्रियते श्रोतसा पयःप्रवाहेण, एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यत इत्युपनयः, तस्माच्चरणविकलस्य ज्ञानस्याकिञ्चित्करत्वादुभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाभिप्रायार्थः॥११४६ // एवमसहायज्ञानपक्षे निराकृते ज्ञानचरणोभयपक्षे च समर्थिते सत्यपरस्त्वाह नि०-गुणाहिए वंदणयं छउमत्थो गुणागुणे अयाणंतो। वंदिजा गुणहीणं गुणाहियं वावि वंदावे // 1147 // इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वाक्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रन्थात्सिद्धः, गुणहीने तु // 933 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy