SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 932 // इत्यर्थः, नैसर्गिकमाश्रित्याह-जातिस्मरणात् सकाशात् निसर्गेण-स्वभावेनोद्गता-सम्भूता जातिस्मरणनिसर्गोद्गता, असावपि 3. तृतीयन निरागमा आगमरहिता दृष्टिः दर्शनं दृष्टिरिति, यतः स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजाति- मध्ययनम् मनुस्मृत्य भूतार्थालोचनपरिणाममेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोचनंच ज्ञानंतस्मादिदमपिज्ञानायत्तोदयमिति वन्दना, नियुक्तिः कृत्वा ज्ञानस्य प्राधान्यात् ज्ञानिन एव कृतिकर्म कार्यमिति स्थितम्, अयं गाथार्थः॥११४२॥ इत्थं ज्ञानवादिनोक्ते सत्या-8 1143-44 हाचार्य: ज्ञानतीर्थवादः उन्मार्गदेशका नि०- नाणं सविसयनिययं न नाणमित्तेण कन्जनिप्फत्ती। मग्गण्णू दिट्ठतो होइ सचिट्ठो अचिट्ठोय // 1143 // अद्रष्टव्याः / ज्ञानं प्रक्रान्तम्, स्वविषये नियतं स्वविषयनियतम्, स्वविषयः पुनरस्य प्रकाशनमेव, यतश्चैवमतः न ज्ञानमात्रेण कार्यनिष्पत्तिः, मात्रशब्दः क्रियाप्रतिषेधवाचकः, अत्रार्थे मार्गज्ञो दृष्टान्तो भवति, सचेष्टः, सव्यापारः अचेष्टश्च अप्रतिपद्यमानचेष्टश्च, एतदुक्तं भवति- यथा कश्चित्पाटलिपुत्रादिमार्गज्ञो जिगमिषुश्चेष्टदेशप्राप्तिलक्षणं कार्यं गमनचेष्टोद्यत एव साधयति, न चेष्टाविकलो भूयसाऽपि कालेन, तत्प्रभावादेव, एवं ज्ञानी शिवमार्गमविपरीतमवगच्छन्नपि संयमक्रियोद्यत एव तत्प्राप्तिलक्षणं कार्य साधयति, नानुद्यतो, ज्ञानप्रभावादेव, तस्मादलं संयमरहितेन ज्ञानेनेति गाथाहृदयार्थः॥११४३॥ प्रस्तुतार्थप्रतिपादकमेव दृष्टान्तान्तरमभिधित्सुराहनि०-आउज्जनट्टकुसलावि नट्टिया तं जणं न तोसेइ / जोगं अजुंजमाणी निंदं खिसंच सा लहइ / / 1144 // // 932 // आतोद्यानि- मृदङ्गादीनि नृत्तं- करचरणनयनादिपरिस्पन्दविशेषलक्षणम्, आतोद्यैः करणभूतैर्नृत्तमातोद्यनृत्तं तस्मिन् / कुशला- निपुणा आतोद्यनृत्तकुशला, असावपि नर्तकी, अपिशब्दात् रङ्गजनपरिवृताऽपि तं जनं रङ्गजनं न तोषयति न हर्ष
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy