________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० | 3. तृतीय मध्ययनम् | वन्दना, | नियुक्तिः 1139 लिङ्गाप्रामाण्यचर्चा। वृत्तियुतम् भाग-३ | // 930 // तुल्याः प्रत्येकबुद्धा अन्तर्मुहूर्तमानं कालमगृहीतद्रव्यलिङ्गाः,चतुर्थभङ्गतुल्याः साधवः शीलयुक्ताः गच्छगता निर्गताश्च जिनकल्पिकादयः, यथा रूपको भङ्गत्रयान्तर्गत: अच्छेक इत्यविकल (इति) तदर्थक्रियार्थिना नोपादीयते, चतुर्थभङ्गनिरूपित एवोपादीयते, एवं भङ्गत्रयनिदर्शिताः पुरुषा अपि परलोकार्थिनो यतोन नमस्करणीयाः, चरमभङ्गकनिदर्शिता एव नमस्करणीया इति भावना, अक्षराणि त्वेवं नीयन्ते- रूपं शुद्धाशुद्धभेदम्, टङ्कं विषमाहताक्षरं विपर्यस्तनिविष्टाक्षरम्, नैव रूपकः छेकः, असांव्यवहारिक इत्यर्थः, द्वयोरपि शुद्धरूपसमाहताक्षरटङ्कयोः समायोगे सति रूपकश्छेकत्वमुपैतीति गाथार्थः॥ 1138 // रूपकदृष्टान्ते दार्टान्तिकयोजनां निदर्शयन्नाह नि०- रुप्पं पत्तेयबुहा टंकंजे लिंगधारिणो समणा / दव्वस्स य भावस्स य छेओसमणो समाओगो॥११३९॥दारं॥ रूपं प्रत्येकबुद्धा इत्यनेन तृतीयभङ्गाक्षेपः, टङ्कं ये लिङ्गधारिणः श्रमणा इत्यनेन तु द्वितीयस्य, अनेनैवाशुद्धशुद्धोभयात्मकस्यापि प्रथमचरमभङ्गद्वयस्येति, तत्र द्रव्यस्य च भावस्य च छेकः श्रमणः समायोगे-समाहताक्षरटङ्कशुद्धरूपकल्पद्रव्यभावलिङ्गसंयोगे शोभन: साधुरिति गाथार्थः॥ 1139 // व्याख्यातं सप्रपञ्चं वैडूर्यद्वारम्, ज्ञानद्वारमधुना, इह कश्चिज्ज्ञानमेव प्रधानमपवर्गबीजमिच्छति, यतः किल एवमागमः-ज अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेइ उसासमित्तेणं॥१॥ तथा- सुई जहा ससुत्ता ण णासई कयवरंमि पडियावि। जीवो तहा ससुत्तो ण णस्सइ गओऽवि संसारे // 2 // तथा- णाणं गिण्हइ णाणं गुणेइ णाणेण कुणइ किच्चाई। भवसंसारसमुदं णाणी णाणे ठिओ तरइ॥३॥तस्माज्ज्ञानमेव प्रधानमपवर्ग 0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः / तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण // 1 // सूचिर्यथा ससूत्रा न नश्यति कचवरे पतिताऽपि / जीवस्तथा ससूत्रो न नश्यति गतोऽपि संसारे / / 2 // ज्ञानं गृह्णाति ज्ञानं गुणयति ज्ञानेन करोति कृत्यानि / भवसंसारसमुद्रं ज्ञानी ज्ञाने स्थितस्तरति // 3 // // 930 //