________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 929 // त्वात्तस्य, ततश्चोभयविकल एवाऽऽकारमात्रतुल्ये कतिपयगुणान्विते चाध्यारोपोऽपि युक्तियुक्तः, अगुणे उइत्यादि अगुणानेव, 3. तृतीयतुशब्दस्यावधारणार्थत्वात् अविद्यमानगुणानेव विजानन् अवबुध्यमानः पार्श्वस्थादीन् कं नमउ मणे गुणं काउं कं मनसि गुणं मध्ययनम् वन्दना, कृत्वा नमस्करोतु तानिति?,स्यादेतत्-अन्यसाधुसम्बन्धिनं तेष्वध्यारोपद्वारेण मनसि कृत्वा नमस्करोतु, न, तेषां सावद्यकर्म नियुक्तिः युक्ततयाऽध्यारोपविषयलक्षणविकलत्वात्, अविषये चाध्यारोपं कृत्वा नमस्कुर्वतो दोषदर्शनाद् / / 1136 // आह च- 1137-38 लिङ्गाप्रामाण्यानि०-जह वेलंबगलिंगंजाणंतस्स नमओ हवइ दोसो। निद्धंधसमिय नाऊण वंदमाणे धुवो दोसो॥११३७ / / चर्चा। यथा विडम्बकलिङ्गं भाण्डादिकृतं जानतः अवबुध्यमानस्य नमतः नमस्कुर्वतः सतोऽस्य भवति दोषः प्रवचनहीलनादिलक्षणः, निद्धन्धसं प्रवचनोपघातनिरपेक्षं पार्श्वस्थादिकं इय एवं ज्ञात्वा अवगम्य वन्दमाणे धुवो दोसो वन्दति- नमस्कुर्वति सति नमस्कर्तरि ध्रुव:- अवश्यंभावी दोष:- आज्ञाविराधनादिलक्षणः, पाठान्तरं वा-'निद्धंधसंपि णाऊणं वंदमाणस्सल दोसाउ' इदं प्रकटार्थमेवेति गाथार्थः // 1137 // एवंन लिङ्गमात्रमकारणतोऽवगतसावधक्रियं नमस्क्रियत इति स्थापितम्, भावलिङ्गमपि द्रव्यलिङ्गरहितमित्थमेवावगन्तव्यम्, भावलिङ्गगर्भ तु द्रव्यलिङ्गं नमस्क्रियते, तस्यैवाभिलषितार्थक्रियाप्रसाधकत्वात्, रूपकदृष्टान्तश्चात्र, आह च नि०- रुप्पं टकं विसमाहयक्खरं नवि रूवओ छेओ। दुण्डंपि समाओगे रूवो छेयत्तणमुवेइ // 1138 // * अत्र तावच्चतुर्भङ्गी- रूपमशुद्धं टङ्कं विषमाहताक्षरमित्येकः, रूपमशुद्धं टङ्क समाहताक्षरमिति द्वितीयः, रूपं शुद्धं टङ्क विषमाहताक्षरमिति तृतीयः, रूपंशुद्धंटर्ड्समाहताक्षरमिति चतुर्थः, अत्र च रूपकल्पं भावलिङ्गंटकल्पंद्रव्यलिङ्गम्,इह च प्रथमभङ्गतुल्याश्चरकादयः,अशुद्धोभयलिङ्गत्वात्, द्वितीयभङ्गतुल्या: पार्श्वस्थादयः, अशुद्धभावलिङ्गत्वात्, तृतीयभङ्ग // 929 //