SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 928 // लिङ्गाप्रामाण्यचर्चा वस्तुगता क्रिया, आत्मान्तरे फलाभावात्, यद्येवं किं प्रतिमाभिरिति?, उच्यते, तस्याः पुनर्मनोविशुद्धेः कारणं निमित्तं . 3. तृतीयभवन्ति प्रतिमाः, तहारेण तस्याः सम्भूतिदर्शनादिति गाथार्थः॥११३४॥आह- एवं लिङ्गमपि प्रतिमावन्मनोविशुद्धिकारणं मध्ययनम् भवत्येवेति, उच्यते नियुक्तिः नि०- जइविय पडिमाउ जहा मुणिगुणसंकप्पकारणं लिंगं / उभयमवि अत्थि लिंगं न य पडिमासूभयं अस्थि // 1135 // 1135-36 यद्यपि च प्रतिमा यथा मुनीनां गुणा मुनिगुणा- व्रतादयस्तेषु सङ्कल्पः- अध्यवसायः मुनिगुणसङ्कल्पस्तस्य कारणंनिमित्तं मुनिगुणसङ्कल्पकारणं लिङ्गं द्रव्यलिङ्गम्, तथाऽपि प्रतिमाभिः सह वैधर्म्यमेव, यत उभयमप्यस्ति लिङ्गे सावद्यकर्म निरवद्यकर्मच, तत्र निरवद्यकर्मयुक्त एव यो मुनिगुणसङ्कल्पः ससम्यक्सङ्कल्पः, स एव च पुण्यफलः, यः पुनः सावद्यकर्मयुक्तेपिमुनिगुणसङ्कल्पःस विपर्याससङ्कल्पः, क्लेशफलश्चासौ, विपर्यासरूपत्वादेव, न च प्रतिमासूभयमस्ति, चेष्टारहितत्वात्, ततश्च तासु जिनगुणविषयस्य क्लेशफलस्य विपर्याससङ्कल्पस्याभावः, सावद्यकर्मरहितत्वात् प्रतिमानाम्, आह- इत्थं तर्हि निरवद्यकर्मरहितत्वात्सम्यक्सङ्कल्पस्यापिपुण्यफलस्याभाव एव प्राप्त इति, उच्यते, तस्य तीर्थकरगुणाध्यारोपेण प्रवृत्ते भाव इति गाथार्थः॥११३५॥ तथा चाऽऽह नि०-नियमा जिणेसु उगुणा पडिमाओ दिस्स जे मणे कुणइ / अगुणे उ वियाणंतो कं नमउ मणे गुणं काउं॥११३६ // नियमादि ति नियमेनावश्यंतया जिनेष्वेव तीर्थकरेष्वेव, तुशब्दस्यावधारणार्थत्वात्, गुणाः ज्ञानादयः, न प्रतिमासु, प्रतिमा दृष्ट्वा तास्वध्यारोपद्वारेण यान् मनसि करोति चेतसि स्थापयति पुनर्नमस्करोति, अत एवासौ तासु शुभः पुण्यफलो जिनगुणसङ्कल्पः, सावद्यकर्मरहितत्वात्, न चायंतासु निरवद्यकर्माभावमात्राद्विपर्याससङ्कल्पः, सावद्यकर्मोपेतवस्तुविषय // 928 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy