________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 927 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 2-34 ण्य नि०- संता तित्थयरगुणा तित्थयरे तेसिमंतु अज्झप्पं / न य सावज्जा किरिया इयरेसु धुवा समणुमन्ना // 1132 // सन्तः विद्यमानाः शोभना वा तीर्थकरस्य गुणास्तीर्थकरगुणा- ज्ञानादयः, क्व?- तीर्थकरे अर्हति भगवति इयं च प्रतिमा तस्य भगवतः तेसिमं तु अज्झप्पं तेषां- नमस्कुर्वतामिदमध्यात्म- इदं चेतः, तथा न च तासु सावद्या सपापा क्रिया चेष्टा प्रतिमासु, इतरेषु पार्श्वस्थादिषु ध्रुवा अवश्यंभाविनी सावद्या क्रिया प्रणमतः, तत्र किमित्यत आह- समणुमण्णा समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् सावधक्रियानुमतिरिति हृदयम्, अथवा सन्तस्तीर्थकरगुणास्तीर्थकरे तान् वयं प्रणमामस्तेषामिदमध्यात्म-इदंचेतः,ततोऽर्हगुणाध्यारोपेण चेष्टप्रतिमाप्रणामान्नमस्कर्तुःनच सावद्या क्रिया-परिस्पन्दनलक्षणा, इतरेषु- पार्श्वस्थादिषु पूज्यमानेष्वशुभक्रियोपेतत्वात्तेषां नमस्कर्तु वा समनुज्ञेति गाथार्थः॥११३२॥पुनरप्याह चोदकः नि०-जह सावजा किरिया नत्थिय पडिमासु एवमियराऽवि। तयभावे नत्थि फलं अह होइ अहेउगं होइ॥११३३॥ यथा सावद्या क्रिया-सपापा क्रिया नास्त्येव न विद्यत एव प्रतिमासु, एवमितराऽपि-निरवद्याऽपि नास्त्येव, ततश्व तदभावे निरवद्यक्रियाऽभावे नास्ति फलं पुण्यलक्षणम्, अथ भवति अहेतुकं भवति निष्कारणं च भवति, प्रणम्यवस्तुगतक्रियाहेतुकत्वा(भावा)त्फलस्येत्यभिप्रायः, अहेतुकत्वे चाकस्मिककर्मसम्भवान्मोक्षाद्यभाव इति गाथार्थः // 1133 // इत्थं चोदकेनोक्ते सत्याहाचार्य: नि०- कामं उभयाभावो तहविफलं अत्थि मणविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होंति पडिमाउ॥११३४॥ कामं अनुमतमिदम्, यदुत उभयाभावः सावद्येतरक्रियाऽभावः प्रतिमासु, तथाऽपि फलं पुण्यलक्षणं अस्ति विद्यते, मनसो विशुद्धिर्मनोविशुद्धिस्तस्या मनोविशुद्धेः सकाशात्, तथाहि- स्वगता मनोविशुद्धिरेव नमस्कर्तुः पुण्यकारणम्, न नमस्करणीय // 927 //