________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 926 // नियुक्तिः 1129-31 चर्चा | स्तद्वाऽस्य विद्यत इत्येवं ज्ञात्वेति गाथार्थः / / 204 / / नि०- एताई अकुव्वंतो जहारिहं अरिहदेसिए मग्गे / न भवइ पवयणभत्ती अभत्तिमंतादओ दोसा // 1129 / / एतानि वाङ्नमस्कारादीनि कषायोत्कटतयाऽकुर्वतः, अनुस्वारोऽत्रालाक्षणिकः, यथार्ह यथायोगमहद्दर्शिते मार्गे न भवति प्रवचनभक्तिः, ततः किमित्यत आह-अभत्तिमंतादओ दोसा प्राकृतशैल्याऽभक्त्यादयो दोषाः, आदिशब्दात् स्वार्थभ्रंशबन्धनादय इति गाथार्थः // 1129 // एवमुद्यतेतरविहारिगते विधौ प्रतिपादिते सत्याह चोदक:- किं नोऽनेन पर्यायाद्यन्वेषणेन?, सर्वथा भावशुद्ध्या कर्मापनयनाय जिनप्रणीतलिङ्गनमनमेव युक्तम्, तद्गतगुणविचारस्य निष्फलत्वात्, न हि तद्गुणप्रभवा / नमस्कर्तुर्निर्जरा, अपि त्वात्मीयाध्यात्मशुद्धिप्रभवा, तथाहि निक-तित्थयरगुणा पडिमासु नत्थि निस्संसयं वियाणंतो। तित्थयरेत्ति नमंतो सो पावइ निजरं विउलं // 1130 // तीर्थकरस्य गुणा- ज्ञानादयस्तीर्थकरगुणास्ते प्रतिमासु बिम्बलक्षणासु णत्थि न सन्ति निःसंशयं संशयरहितं विजानन् / अवबुध्यमानस्तथाऽपि तीर्थकरोऽयमित्येवं भावशुद्ध्या नमन् प्रणमन्सप्रणामकर्ता प्राप्नोति आसादयति निर्जरांकर्मक्षयलक्षणां विपुलां विस्तीर्णामिति गाथार्थः॥११३०॥ एष दृष्टान्तः, अयमर्थोपनयः नि०-लिंगं जिणपण्णत्तं एव नमंतस्स निजरा विउला / जइवि गुणविप्पहीणं वंदइ अज्झप्पसोहीए।११३१॥ लिङ्गयते साधुरनेनेति लिङ्ग- रजोहरणादिधरणलक्षणं जिनैः-अर्हद्भिः प्रज्ञप्तं- प्रणीतं एवं यथा प्रतिमा इति नमस्कुर्वतः प्रणमतो निर्जरा विपुला, यद्यपि गुणैः- मूलोत्तरगुणैर्विविधं- अनेकधा प्रकर्षेण हीनं-रहितं गुणविप्रहीणम्, वन्दते नमस्करोति / अध्यात्मशुद्ध्या चेतःशुद्धचेति गाथार्थः॥११३१॥ इत्थं चोदकेनोक्ते दृष्टान्तदान्तिकयोवैषम्यमुपदर्शयन्नाचार्य आह // 926 //