SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 925 // नियुक्तिः |1128 लिङ्गाप्रामाण्यचर्चा। भाष्यः 204 वा तस्यैव नमोक्कारो त्ति नमस्कारः क्रियते- हे देवदत्त! नमस्ते, एवं सर्वत्रोत्तरविशेषकरणे पुरुषकार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या, हत्थुस्सेहो य त्ति अभिलापनमस्कारगर्भः हस्तोच्छ्रयश्च क्रियते, सीसनमणं च शिरसा- उत्तमाङ्गेन नमनं शिरोनमनं च क्रियते, तथा सम्प्रच्छनं कुशलं भवत इत्यादि, अनुस्वारलोपोऽत्र द्रष्टव्यः, अच्छणं ति त(द्वहुमानस्त) त्सन्निधावासनं कश्चित्कालमिति, एष तावहिदृष्टस्य विधिः, कारणविशेषतः पुनस्तत्प्रतिश्रयमपिगम्यते, तत्राप्येष एव विधिः, नवरं छोभवंदणं ति आरभट्या छोभवन्दनं क्रियते, वन्दणं वाऽवि परिशुद्धं वा वन्दनमिति गाथार्थः // 1127 // एतच्च वाङ्नमस्कारादि नाविशेषेण क्रियते, किं तर्हि? नि०- परियायपरिसपुरिसे खित्तं कालं च आगमं नच्चा / कारणजाए जाए जहारिहं जस्स जंजुग्गं // 1128 // पर्यायश्च परिषच्च पुरुषश्च पर्यायपरिषत्पुरुषास्तान्, तथा क्षेत्रं कालं च आगमं णच्च त्ति ज्ञात्वा- विज्ञाय कारणजाते प्रयोजनप्रकारे जाते उत्पन्ने सति यथार्ह यथानुकूलं यस्य पर्यायादिसमन्वितस्य यद् योग्यं समनुरूपं वाङ्नमस्कारादि तत्तस्य, क्रियत इति वाक्यशेषः, अयं गाथासमासार्थः॥११२८ ॥साम्प्रतमवयवार्थं प्रतिपादयन्नाह भाष्यकार: भा०- परियाय बंभचेरंपरिस विणीया सि पुरिस णच्चा वा / कुलकज्जादायत्ता आघवउ गुणागमसुयं वा // 204 // __पर्यायः ब्रह्मचर्यमुच्यते, तत्प्रभूतं कालमनुपालितं येन, परिषद्विनीता वा- तत्प्रतिबद्धा साधुसंहतिः शोभना से अस्य पुरिस णच्चा व त्ति पुरुषं ज्ञात्वा वा, अनुस्वारलोपोऽत्र द्रष्टव्यः, कथं ज्ञात्वा?- कुलकार्यादीन्यनेनायत्तानि, आदिशब्दाद्गणसङ्घकार्यपरिग्रहः, आघवउत्ति आख्यातः,तस्मिन् क्षेत्रे प्रसिद्धस्तद्बलेन तत्रास्यत इति क्षेत्रद्वारार्थः, गुणाऽऽगमसुयं वत्ति गुणा-अवमप्रतिजागरणादय इति कालद्वारावयवार्थः, आगमः- सूत्रार्थोभयरूपः, श्रुतं- सूत्रमेव, गुणाश्चाऽऽगमश्च श्रुतं चेत्येकवद्भाव // 925 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy