SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 924 // कादिग्रहणंच भवति कर्त्तव्यम्, किमिति?, कदाचिदसौ कश्चिदाचार्यादिर्विद्याद्यतिशयसम्पन्नः तत्प्रदानायैवाऽऽगतो भवेत्, 3. तृतीयप्रशिष्यसकाशमाचार्यकालकवत्, सखल्वविनीतं सम्भाव्य न तत्प्रयच्छतीति, तथा दृष्टपूर्वास्तु द्विप्रकारा- उद्यतविहारिणः / मध्ययनम् शीतलविहारिणश्च, तत्रोद्यतविहारिणि साधौ दृष्टपूर्वे उपलब्धपूर्वे यथार्फ यथायोग्यमभ्युत्थानवन्दनादि यस्य बहुश्रुतादेर्यद् / वन्दना, नियुक्तिः योग्यं तत्कर्तव्यं भवति, यः पुनः शीतलविहारी न तस्याभ्युत्थानवन्दनाद्युत्सर्गतः किञ्चित्कर्तव्यमिति गाथार्थः-॥११२५॥ 1126-27 साम्प्रतं कारणतः शीतलविहारिगतविधिप्रतिपादनाय सम्बन्धगाथामाह लिङ्गाप्रामाण्य चर्चा नि०- मुक्तधुरासंपागडसेवीचरणकरणपन्भटे। लिंगावसेसमित्तेजंकीरइतं पुणो वोच्छं // 1126 // * धूः- संयमधूः परिगृह्यते, मुक्ता- परित्यक्ता धूर्येनेति समासः, सम्प्रकटं- प्रवचनोपघातनिरपेक्षमेव मूलोत्तरगुणजालं सेवितुं शीलमस्येति सम्प्रकटसेवी, मुक्तधूश्वासौ सम्प्रकटसेवी चेति विग्रहः, तथा चर्यत इति चरणं- व्रतादिलक्षणं क्रियत इति करणं-पिण्डविशुद्ध्यादिलक्षणं चरणकरणाभ्यां प्रकर्षेण भ्रष्टः- अपेतश्चरणकरणप्रभ्रष्टः, मुक्तधूः सम्प्रकटसेवी चासो चरणकरणप्रभ्रष्टश्चेति समासस्तस्मिन्, प्राकृतशैल्या अकारेकारयोर्दीर्घत्वम्, इत्थम्भूते लिङ्गावशेषमात्रे केवलद्रव्यलिङ्गयुक्ते यत्क्रियते किमपि तत्पुनर्वक्ष्ये, पुनःशब्दो विशेषणार्थः, किं विशेषयति?- कारणापेक्षं-कारणमाश्रित्य यत्क्रियते तद्वक्ष्येअभिधास्ये, कारणाभावपक्षे तु प्रतिषेधः कृत एव, विशेषणसाफल्यं तु मुक्तधूरपि कदाचित्सम्प्रकटसेवी न भवत्यपि अतस्तद्ग्रहणम्, संप्रकटसेवी चरणकरणप्रभ्रष्ट एवेति स्वरूपकथनमिति गाथार्थः / / 1126 / / किं तत्क्रियत इत्यत आह नि०- वायाइ नमोक्कारो हत्थुस्सेहो यसीसनमणंच / संपुच्छणऽच्छणं छोभवंदणं वंदणं वावि // 1127 // वायाए त्ति निर्गमभूम्यादौ दृष्टस्य वाचाऽभिलापः क्रियते- हे देवदत्त! कीदृशस्त्वमित्यादिलक्षणः, गुरुतरपुरुषकार्यापेक्षं // 924 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy