SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 922 // प्राप्नोति- आसादयति लवणभावं-क्षारभावं मधुरमपि सन्, मीलनदोषानुभावेनेति गाथार्थः॥१११९ // नि०- एवं खुसीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं // 1120 // खुशब्दोऽवधारणे, एवमेव शीलमस्यास्तीति शीलवान् स खलु अशीलवद्भिः पार्श्वस्थादिभिः सार्द्ध मीलितः सन् प्राप्नोति आसादयति गुणा- मूलोत्तरगुणलक्षणास्तेषां परिहाणि:- अपचयः गुणपरिहाणिस्ताम्, तथैहिकांश्चापायांस्तत्कृतदोषसमुत्थानिति, मीलनदोषानुभावेनेति गाथार्थः // 1120 // यतश्चैवमतः नि०-खणमविन खमं काउं अणाययणसेवणं सुविहियाणं / हंदि समुद्दमइगयं उदयं लवणत्तणमुवेइ // 1121 // लोचननिमेषमात्रः कालः क्षणोऽभिधीयते, तं क्षणमपि, आस्तां तावन्मुहूर्तोऽन्यो वा कालविशेषः, न क्षमं न योग्यम्, किं?- काउं अणाययणसेवणं ति कर्तु-निष्पादयितुम्, अनायतनं- पार्श्वस्थाद्यायतनं तस्य सेवनं-भजनम्, अनायतनसेवनम्, केषां?- सुविहितानां साधूनाम्, किमित्यत आह- हन्दि इत्युपदर्शने, समुद्रमतिगतं- लवणजलधिं प्राप्तं उदकं मधुरमपि सत् लवणत्वमुपैति क्षारभावं याति, एवं सुविहितोऽपि पार्श्वस्थादिदोषसमुद्रप्राप्तस्तद्भावमाप्नोति, अतः परलोकार्थिना तत्संसर्गिस्त्याज्येति, ततश्च व्यवस्थितमिदं-येऽपि पार्श्वस्थादिभिः सार्द्ध संसर्गिं कुर्वन्ति तेऽपिन वन्दनीयाः, सुविहिता एव वन्दनीया इति / अत्राऽऽह नि०-सुविहिय दुविहियंवा नाहं जाणामि हंखुछउमत्थो। लिंगंतु पूययामी तिगरणसुद्धण भावेणं // 1122 // शोभनं विहितं- अनुष्ठानं यस्यासौ सुविहितस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, दुर्विहितस्तु पार्श्वस्थादिस्तं दुर्विहितं वा नाहं| जानामि नाहं वेधि, यतः अन्तःकरणशुद्ध्यशुद्धिकृतं सुविहितदुर्विहितत्वम्, परभावस्तु तत्त्वतः सर्वज्ञविषयः, अहंखुछउमत्थो 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1120-21 पार्श्वस्थादेवन्दने दोषाः। नियुक्तिः 1122 लिङ्गाप्रामाण्यचर्चा। // 922 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy