SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 921 // चिरपतिततिक्तनिम्बोदकवासितायां भूमौ आम्रवृक्षः समुत्पन्नः, पुनस्तत्राऽऽम्रस्य च निम्बस्य च द्वयोरपि समागते एकीभूते 3. तृतीयमूले, ततश्च संसर्या सङ्गत्या विनष्ट आम्रो निम्बत्वं प्राप्त:- तिक्तफलः संवृत्त इति गाथार्थः॥१११६ // तदेवं संसर्गिदोषदर्शना- मध्ययनम् वन्दना, त्याज्या पार्श्वस्थादिसंसर्गिरिति / पुनरप्याह चोदकः-नन्वेतदपि सप्रतिपक्षम्, तथाहि नियुक्तिः नि०-सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमछमि / कीस न जायइ महुरो? जइ संसग्गी पमाणते // 1117 // 1117-19 सुचिरमपि प्रभूतकालमपि तिष्ठन् नलस्तम्बः वृक्षविशेषः इक्षुवाटमध्ये इक्षुसंसर्या किमिति न जायते मधुरः?, यदि संसर्गी पार्श्वस्थादे वन्दने प्रमाणं तवेति गाथार्थः॥ 1117 // आहाचार्य:- ननु विहितोत्तरमेतत् भावुग अभावुगाणि य इत्यादिग्रन्थेन, अत्रापि च। दोषाः। केवली अभाव्यः पार्श्वस्थादिभिः, सरागास्तु भाव्या इति / आह-तैः सहाऽऽलापमात्रतायां संसर्यां क इव दोष इति?, उच्यते नि०-ऊणगसयभागेणं बिंबाइंपरिणमंति तब्भावं / लवणागराइसुजहा वजेह कुसलसंसग्गिं॥१११८॥ ऊनश्चासौशतभागश्चोनशतभाग:शतभागोऽपिन पूर्यत इत्यर्थः, तेन तावताउंशेन प्रतियोगिनासह सम्बद्धानीति प्रक्रमादम्यते / बिम्बानि रूपाणि परिणमन्ति तद्भावमासादयन्ति लवणीभवन्तीत्यर्थः, लवणागरादिषु यथा, आदिशब्दाद्भाण्डखादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति, तथा पार्श्वस्थाद्यालापमात्रसंसाऽपि सुविहितास्तमेव भावं यान्ति, अतः वज्जेह कुसीलसंसगिं त्यजत कुशीलसंसर्गिमिति गाथार्थः // 1118 // पुनरपि संसर्गिदोषप्रतिपादनायैवाऽऽह // 921 // नि०-जह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं / पावेइ लोणभावं मेलणदोसाणुभावेणं // 1119 // यथे त्युदाहरणोपन्यासार्थः नामे ति निपातः मधुरसलिलं नदीपयः तल्लवणसमुद्रंक्रमेण परिपाट्या सम्प्राप्तं सत् पावेइ लोणभावं.
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy