SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 3. तृतीयमध्ययनम् वन्दना, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 917 // पार्श्वस्थादेवन्दने दोषाः। नि०-सुठुतरं नासंती अप्पाणंजे चरित्तपन्भट्ठा / गुरुजण वंदाविंती सुसमण जहुत्तकारिंच ॥१११०॥दारं / / सुटुतरं ति सुतरां नाशयन्त्यात्मानं सन्मार्गात्, के?- ये चारित्रात्- प्राग्निरूपितशब्दार्थात् प्रकर्षेण भ्रष्टाः- अपेताः सन्तः गुरुजनं गुणस्थसुसाधुवर्ग वन्दयन्ति कृतिकर्म कारयन्ति, किम्भूतं गुरुजनं?- शोभनाः श्रमणा यस्मिन् स सुश्रमणस्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, तथा यथोक्तं क्रियाकलापं कर्तुं शीलमस्येति यथोक्तकारी तं यथोक्तकारिणं चेति गाथार्थः // 1110 // एवं वन्दकवन्द्यदोषसम्भवात्पार्श्वस्थादयो न वन्दनीयाः, तथा गुणवन्तोऽपि ये तैः सार्द्ध संसर्गं कुर्वन्ति तेऽपिन वन्दनीयाः, किमित्यत आह नि०- असुइट्ठाणे पडिया चंपगमाला न कीरईसीसे। पासत्थाईठाणेसुवट्टमाणा तह अपुजा // 1111 // यथा अशुचिस्थाने विप्रधाने स्थाने पतिता चम्पकमाला स्वरूपतः शोभनाऽपि सत्यशुचिस्थानसंसर्गान्न क्रियते शिरसि, पार्श्वस्थादिस्थानेषु वर्तमानाः साधवस्तथा अपूज्याः अवन्दनीयाः, पार्श्वस्थादीनां स्थानानि-वसतिनिर्गमभूम्यादीनि परिगृह्यन्ते, अन्ये तु शय्यातरपिण्डाद्युपभोगलक्षणानि व्याचक्षते यत्संसर्गात्पार्श्वस्थादयो भवन्ति, न चैतानि सुष्ठु घटन्ते, तेषामपि तद्भावापत्तेः, चम्पकमालोदाहरणोपनयस्य च सम्यगघटमानत्वादिति / अत्र कथानकं- एगो चंपकप्पिओ कुमारो चंपगमालाए सिरे कयाए आसगओ वच्चइ, आसेण उद्धृयस्स सा चंपगमाला अमेज्झे पडिया, गिण्हामित्ति अमिज्झंदट्ठण मुक्का, सो य चंपएहिं विणाधितिं न लभइ, तहावि ठाणदोसेण मुक्का / एवं चंपगमालत्थाणीया साहू अमिज्झत्थाणिया O एकश्चम्पकप्रियःकुमारः चम्पकमालायां शिरसि कृतायामश्वगतो व्रजति, अश्वेनोद्भूते सा चम्पकमालाऽमध्ये पतिता, गृह्णामीति अमेध्यं दृष्ट्वा मुक्ता, स च चम्पकैर्विना धृतिं न लभते, तथापि स्थानदोषेण मुक्ता / एवं चम्पकमालास्थानीयाः साधवः अमेध्यस्थानीयाः // 917 // N
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy