SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 916 // दोषाः। पार्श्वस्थादीन् उक्तलक्षणान् वन्दमानस्य नमस्कुर्वतो नैव कीर्तिन निर्जरा भवति, तत्र कीर्तिः- अहो अयं पुण्यभागित्येवंलक्षणा 3. तृतीयअसा भवति, अपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा- कर्मक्षयलक्षणा सा न मध्ययनम् भवति, तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायः- देहस्तस्य क्लेश:- अवनामादिलक्षणः वन्दना, सपनामावलक्षण नियुक्तिः कायक्लेशस्तं कायक्लेशं एवमेव मुधैव करोति निर्वर्तयति, तथा क्रियत इति कर्म- ज्ञानावरणीयादिलक्षणं तस्य बन्धो-११०९ विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वा आत्मनो बन्धः- स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति | पार्श्वस्थादे वन्दने वर्तते, चशब्दादाज्ञाभङ्गादींश्च दोषानवाप्नुते, कथं?- भगवत्प्रतिक्रुष्टवन्दने आज्ञाभङ्गः, तं दृष्वाऽन्येऽपि वन्दन्तीत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः॥११०८॥ एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थानामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह नि०-जे बंभचेरभट्ठा पाए उड्डंति बंभयारीणं / ते होंति कुंटमंटा बोही यसुदुल्लहा तेसिं // 1109 // ये पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकः, तथौघतः संयमवाचकश्च, पाए। उड्डिंति बंभयारीणं पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, न तद्वन्दननिषेधं कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित्कृच्छ्रेण मानुषत्वमासादयन्ति तदाऽपि भवन्ति कोंटमण्टाः // 916 // बोधिश्च जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषाम्, सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः॥ 1109 // तथा
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy