SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 904 // 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1104 वन्दनचित्यादिषु दृष्टान्ताः / इति गाथाद्वयसंक्षेपार्थः॥ अवयवार्थ उच्यते, तत्र वन्दनकर्म द्विधा- द्रव्यतो भावतश्च, द्रव्यतो मिथ्यादृष्टेरनुपयुक्तसम्यग्दृष्टश्च,भावतः सम्यग्दृष्टरुपयुक्तस्य, चितिकर्मापि द्विधैव- द्रव्यतो भावतश्च, द्रव्यतस्तापसादिलिङ्गग्रहणकर्मानुपयुक्तसम्यग्दृष्टे रजोहरणादिकर्म च, भावतः सम्यग्दृष्ट्युपयुक्ता रजोहरणाद्युपधिक्रियेति, कृतिकर्मापि द्विधा- द्रव्यतः कृतिकर्म निह्नवादीनामवनामादिकरणमनुपयुक्तसम्यग्दृष्टीनां च, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, पूजाकर्मापि द्विधा- द्रव्यतो निह्नवादीनां मनोवाक्कायक्रिया अनुपयुक्तसम्यग्दृष्टीनांच, भावतः सम्यग्दृष्ट्युपयुक्तानामिति, विनयकर्मापि द्विधा- द्रव्यतो निह्नवादीनामनुपयुक्तसम्यग्दृष्टीनांच, भावत उपयुक्तसम्यग्दृष्टीनां विनयक्रियेति ॥साम्प्रतं वन्दनादिषु द्रव्यभावभेदप्रचिकटयिषया दृष्टान्तान् प्रतिपादयन्नाह नि०-सीयले खुड्डए कण्हे, सेवए पालए तहा। पंचेते दिटुंता किइकम्मे होंति णायव्वा / / 1104 // सीतलः क्षुल्लकः कृष्णः सेवकः पालकस्तथा पञ्चैते दृष्टान्ताः कृतिकर्मणि भवन्ति ज्ञातव्या इति / कः पुनः शीतलः?,१ तत्र कथानकं- एगस्स रण्णो पुत्तो सीयलोणाम, सो य णिव्विण्णकामभोगो पव्वतिओ, तस्स य भगिणी अण्णस्स रण्णो दिण्णा, तीसे चत्तारि पुत्ता, सा तेसिं कहतरेसु कहं कहेइ, जहा तुज्झ मातुलओ पुव्वपव्वइओ, एवं कालो वच्चइ / तेऽवि अन्नया तहारूवाणं थेराणं अंतिए पव्वइया चत्तारि, बहुस्सुया जाया, आयरियं पुच्छिउं माउलगं वंदगा जंति / एगंमि णयरे Oएकस्य राज्ञः पुत्रः शीतलो नाम, स च निर्विण्णकामभोगः प्रव्रजितः, तस्य च भगिनी अन्यस्मै राज्ञे दत्ता, तस्याश्चत्वारः पुत्राः, सा तेभ्यः कथान्तरेषु (कथावसरेषु) कथां कथयति- यथा युष्माकं मातुलः पूर्व प्रव्रजितः, एवं कालो व्रजति / तेऽपि अन्यदा तथारूपाणां स्थविराणामन्तिके प्रव्रजिताश्चत्वारः, बहुश्रुता जाताः, आचार्य | पृष्ट्वा मातुलं वन्दितुं यान्ति / एकस्मिन्नगरे - // 904 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy