SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 3. तृतीयमध्ययनम् वन्दना, नियुक्तिः 1103 भाग-३ वन्द नै // 902 // कार्थिकानि। ॥अथ वन्दनाख्यं तृतीयमध्ययनम् // साम्प्रतं चतुर्विंशतिस्तवानन्तरं वन्दनाध्ययनम्, तस्य चायमभिसम्बन्धः, अनन्तराध्ययने सावद्ययोगविरतिलक्षणसामायिकोपदेष्ट्रणामर्हतामुत्कीर्तनं कृतम्, इह त्वर्हदुपदिष्टसामायिकगुणवत एव वन्दनलक्षणा प्रतिपत्ति: कार्येति प्रतिपाद्यते, यद्वा- चतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेः कर्मक्षय उक्तः, यथोक्तं- भत्तीएँ जिणवराणं खिज्जत्ती पुव्वसंचिआ कम्म त्ति, वन्दनाध्ययनेऽपि कृतिकर्मरूपायाः साधुभक्तेस्तद्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-विणओवयार माणस्स भंजणा पूयणा गुरुजणस्स। तित्थगराण य आणा सुयधम्माराहणाऽकिरिया॥१॥अथवा सामायिके चारित्रमुपवर्णितम्, चतुर्विंशतिस्तवे त्वर्हता गुणस्तुतिः, सा च दर्शनज्ञानरूपा एवमिदं त्रितयमुक्तम्, अस्य च वितथासेवनायामैहिकामुष्मिकापायपरिजिहीर्षुणा गुरोर्निवेदनीयम्, तच्च वन्दनपूर्वमित्यतस्तन्निरूप्यते, इत्थमनेनानेकप्रकारेण सम्बन्धेनाऽऽयातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे वन्दनाध्ययनमिति (नाम) तत्र वन्दनं निरूप्यते-'वदि अभिवादनस्तुत्योः' इत्यस्य करणाधिकरणयोश्चे (पा०३-३-११७) ति ल्युट्, युवोरनाकावि (पा०७-१-१) त्यनादेशः, इदितो नुम् धातोरिति (पा०७१-५८) नुमागमः, ततश्च वन्द्यते-स्तूयतेऽनेन प्रशस्तमनोवाक्कायव्यापारजालेनेति वन्दनम्, अस्याधुना पर्यायशब्दान् प्रतिपादयन्निदं गाथाशकलमाह नियुक्तिकारः नि०- वंदणचिइकिइकम्मं पूयाकम्मंच विणयकम्मं च / वन्दनं-निरूपितमेव, चिञ् चयने अस्य स्त्रियां क्तिन् (पा०३-३-९४) कुशलकर्मणश्च चयनं चितिः, कारणे कार्योपचाराद्र0 विनयोपचार: मानस्य भञ्जना पूजना गुरुजनस्य। तीर्थकराणां चाज्ञा श्रुतधर्माराधनाऽक्रिया॥१॥ // 903
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy