________________ २.द्वितीयमध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० चतुर्विंशति स्तव, वृत्तियुतम् भाग-३ कर्मविगमात् कृतकृत्या इत्यर्थः, सिद्धिं- परमपदप्राप्तिं मम दिसंतु मम प्रयच्छन्त्विति सूत्रगाथार्थः॥७॥साम्प्रतं सूत्रस्पर्शिकनिर्युक्त्यैनामेव गाथां लेशतो व्याख्यानयन्नाह नि०-चंदाइचगहाणं पहा पयासेइ परिमिअंखित्तं / केवलिअनाणलंभो लोगोलोगं पगासेड़ // 1102 // चन्द्रादित्यग्रहाणा मिति, अत्र ग्रहा अङ्गारकादयो गृह्यन्ते, प्रभा ज्योत्स्ना प्रकाशयति उद्योतयति परिमितं क्षेत्रमित्यत्र तात्स्थ्यात्तव्यपदेशः, यथा मञ्चाः क्रोशन्तीति, क्षेत्रस्यामूर्तत्वेन मूर्तप्रभया प्रकाशनायोगादिति भावना, केवलज्ञानलाभस्तु लोकालोकंप्रकाशयति सर्वधर्मेरुद्योतयतीति गाथार्थः॥११०२॥उक्तोऽनुगमः, नयाः सामायिकवद्रष्टव्याः।। इति चतुर्विंशतिस्तवटीका समाप्तेति॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया तेन / जन्मप्रवाहहतये कुर्वन्तु जिनस्तवं भव्याः॥१॥ // 901 // नियुक्तिः 1102 केवलेन लोकालोकप्रकाश:। // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतायां शिष्यहिताख्याऽऽवश्यकवृत्तौ चतुर्विंशतिस्तवाख्यं द्वितीयमध्ययनं समाप्तम् // // 901 //