SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ २.द्वितीयमध्ययनम् चतुर्विंशति // 900 // लम्बनं चेतस्याधाय प्रमादिना भवितव्यमिति, तपस्संयमोद्यमवतश्चैत्यादिषु कृत्याविराधकत्वात्, तथा चाऽऽह नि०- चेइयकुलगणसंघे आयरिआणं च पवयण सुए आसव्वेसुवि तेण कयं तवसंजममुजमंतेणं // 1101 // चैत्यकुलगणसङ्केषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किं?, सर्वेष्वपि तेन कृतम्, कृत्यमिति गम्यते, केन?, तपः संयमोद्यमवता साधुनेति, तत्र चैत्यानि- अर्हत्प्रतिमालक्षणानि, कुलं- विद्याधरादि, गणः- कुलसमुदायः सङ्घ:समस्त एव साध्वादिसङ्घातः, आचार्याः- प्रतीताः, चशब्दादुपाध्यायादिपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, एवमन्यत्रापि द्रष्टव्यम्, प्रवचन- द्वादशाङ्गमपि सूत्रार्थतदुभयरूपम्, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदप्रदर्शनार्थः, एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपः संयमोद्यमवान् वर्तते, इयमत्र भावना- अयं हि नियमात् ज्ञानदर्शनसम्पन्नो भवति अयमेव चगुरुलाघवमालोच्य चैत्यादिकृत्येषुसम्यक्प्रवर्तते यथैहिकामुष्मिकगुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽप्यविवेकादकृत्यमेव संपादयति, अत्र बहु वक्तव्यमिति गाथार्थः // 1101 // एवं तावद्गतं सूत्रमूल एवं मए अभिथुए त्यादि गाथाद्वयम्, साम्प्रतं चंदेसु निम्मलयरा आइच्चेसु अहिअंपयासयरा / सागरवरगंभीरा सिद्धा सिद्धिं मम दिसंतु // सूत्रम् 7 // (8) इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मलतराः, पाठान्तरं वा चंदेहिं निम्मलयर त्ति, तत्र सकलकर्ममलापगमाच्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकप्रभासकराः प्रकाशकरा वा, केवलोद्योतेन विश्वप्रकाशनादिति, वक्ष्यति च नियुक्तिकारः-'चंदाइच्चगहाण'मित्यादि, तथा सागरवरादपि गम्भीरतराः, तत्र सागरवरःस्वयम्भूरमणोऽभिधीयते परीषहोपसर्गाद्यक्षोभ्यत्वात् तस्मादपि गम्भीरतरा इति भावना, सितं- ध्मातमेतेषामिति सिद्धाः, नियुक्तिः 1101 प्रार्थनाया अनिदानता। सूत्रम् 7 (8) प्रार्थनाया अनिदानता। // 200 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy