________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 899 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः |1099-1100 प्रार्थनाया अनिदानता। भक्त्या जिनवराणाम्, किंविशिष्टया?- परमया प्रधानया भावभक्त्येत्यर्थः, क्षीणप्रेमद्वेषाणां जिनानाम्, किं?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यम्, समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः ॥१०९८॥साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाह नि०-लद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो। दच्छिसि जह तं विन्भल! इमंच अन्नं च चुक्तिहिसि // 1099 // नि०-लद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्तो / अन्नंदाई बोहिं लब्भिसि कयरेण मुल्लेण?॥११००॥ लद्धेल्लियं च त्ति लब्धांच-प्राप्तांच वर्तमानकाले, कां?, बोधिं जिनधर्मप्राप्तिम्, अकुर्वन् इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् अनागतां च आयत्यामन्यां च प्रार्थयन्, किं?, द्रक्ष्यसि यथा त्वं हे विह्वल!- जडप्रकृते! इमां चान्यां बोधिमधिकृत्य, किं?, चुक्किहिसि देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः। तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन्, अन्नंदाइंति निपातः असूयायाम्, अन्ये तु व्याचक्षते- अन्यामिदानी बोधिं लप्स्यसि, किं?, कतरेण मूल्येन?, इयमत्र भावनाबोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, स्यादेतद्, एवं सत्याद्यस्य बोधिलाभस्यासम्भव एवोपन्यस्तः, वासनाऽभावात्, न, अनादिसंसारे राधावेधोपमानेनानाभोगत एव कथञ्चित्कर्मक्षयतस्तदवाप्तेरित्येतदावेदितमेवोपोद्धात इत्यलं विस्तरेणेति गाथाद्वयार्थः // 1099-1100 // तस्मात्सति बोधिलाभेतपस्संयमानुष्ठानपरेण भवितव्यम्, न यत्किञ्चिच्चैत्याद्या // 899 //