________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 897 // स्तव, |1095 अत्र काक्का पृच्छति- किं नु हु णियाणमेअंति तत्र किमिति परप्रश्ने, नु इति वितर्के, हु तत्समर्थने, निदानमेतदिति?,-. २.द्वितीययदुक्तमारोग्यादि ददतु, यदि निदानमलमनेन, सूत्रे प्रतिषिद्धत्वात्, न चेद् व्यर्थमेवोच्चारणमिति, गुरुराह- विभासा एत्थ चतुर्विंशतिकायव्व त्ति विविधा भाषा विभाषा-विषयविभागव्यवस्थापनेन व्याख्येत्यर्थः, अत्र कर्तव्या, इयमिह भावना- नेदं निदानम्, कर्मबन्धहेतुत्वाभावात्, तथाहि-मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः,नच मुक्तिप्रार्थनायाममीषामन्यतरस्यापि नियुक्तिः सम्भव इति, न च व्यर्थमेव तदुच्चारणमिति, ततोऽन्तःकरणशुद्धेरिति गाथार्थः॥१०९४ // आह-न नामेदमित्थं निदानम्, प्रार्थनाया तथापि तु दुष्टमेव, कथं?, इह स्तुत्या आरोग्यादिप्रदातारः स्युर्न वा?, यद्याद्यः पक्षस्तेषां रागादिमत्त्वप्रसङ्गः, अथ चरमः अनिदानता। तत आरोग्यादिप्रदानविकला इति जानानस्यापि प्रार्थनायां मृषावाददोषप्रसङ्ग इति, न, इत्थं प्रार्थनायां मृषावादयोगात्, तथा चाह नि०- भाषा असञ्चमोसा नवरं भत्तीइ भासिआ एसा / न हुखीणपिज्जदोसा दिति समाहिं च बोहिं च // 1095 // भाषा असत्यामृषेयं वर्तते, साचामन्त्रण्यादिभेदादनेकविधा, तथा चोक्तं-आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी। पञ्चक्खाणी भासा भासा इच्छाणुलोमा य॥१॥ अणभिग्गहिया भासा भासा य अभिग्गहमि बोद्धव्वा। संसयकरणी भासा वोयड अव्वोयडा चेव ॥२॥इत्यादि, तत्रेह याचन्याऽधिकार इति, यतो याञ्चायां वर्तते, यदुत-'आरुग्गबोहिलाभं समाहिवरमुत्तमं / दितु'त्ति / आह-रागादिरहितत्वादारोग्यादिप्रदानविकलास्ते, ततश्च किमनयेति?, उच्यते, सत्यमेतत्, नवरं भक्त्या भाषितैषा, Oआमन्त्रणी आज्ञापनी याचनी तथा प्रच्छनी च प्रज्ञापनी। प्रत्याख्यानी भाषा भाषेच्छानुलोमा च॥ 1 // अनभिगृहीता भाषा भाषा चाभिग्रहे बोद्धव्या। संशयकरणी भाषा व्याकृताऽव्याकृतैव // 2 //