________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ | // 896 // द्रव्यसमाधिव्यवच्छेदार्थमाह-वरं-प्रधानं भावसमाधिमित्यर्थः, असावपितारतम्यभेदादनेकधैव अत आह-उत्तम-सर्वोत्कृष्ट ददतु- प्रयच्छन्तु, आह- किं तेषां प्रदानसामर्थ्यमस्ति? न, किमर्थमेवमभिधीयत इति?, उच्यते, भक्त्या, वक्ष्यति चभासा असच्चमोसा' इत्यादि, नवरं तद्भक्त्या स्वयमेव तत्प्राप्तिरुपजायत इति कृतं विस्तरेणेति गाथार्थः॥६॥ व्याख्यातं लेशत इदं सूत्रगाथाद्वयम्, अधुना सूत्रस्पर्शिकया प्रतन्यते, तत्राभिष्टवकीर्तनैकार्थिकानि प्रतिपादयन्नाह नि०-थुइथुणणवंदणनमंसणाणि एगट्ठिआणि एयाणि / कित्तण पसंसणावि अविणयपणामे अएगट्ठा // 1092 // स्तुतिः स्तवनं वन्दनं नमस्करणं एकार्थिकान्येतानि, तथा कीर्तनं प्रशंसैव विनयप्रणामौ च एकार्थिकानीति गाथार्थः॥१०९२॥ साम्प्रतं यदुक्तं उत्तमा इति तद्व्याचिख्यासुरिदमाह नि०- मिच्छत्तमोहणिज्जा नाणावरणा चरित्तमोहाओ।तिविहतमा उम्मुक्का तम्हा ते उत्तमा हुंति // 1093 // मिथ्यात्वमोहनीयात् तथा ज्ञानावरणात्तथा चारित्रमोहाद् इति, अत्र मिथ्यात्वमोहनीयग्रहणेन दर्शनसप्तकं गृह्यते, तत्रानन्तानुबन्धिनश्चत्वारः कषायास्तथा मिथ्यात्वादित्रयं च, ज्ञानावरणं मतिज्ञानाद्यावरणभेदात् पञ्चविधम्, चारित्रमोहनीयं पुनरेकविंशतिभेदम्, तच्चानन्तानुबन्धिरहिता द्वादश कषायास्तथा नव नोकषाया इति, अस्मादेव यतस्त्रिविधतमसः, किं?उन्मुक्ताः- प्राबल्येन मुक्ताः, पृथग्भूता इत्यर्थः, तस्मात्ते भगवन्तः, किं?, उत्तमा भवन्ति, ऊर्ध्व तमोवृत्तेरिति गाथार्थः // 1093 // साम्प्रतं यदुक्तं आरोग्यबोधिलाभ मित्यादि, अत्र भावार्थमविपरीतमनवगच्छन्नाह नि०- आरुग्गबोहिलाभं समाहिवरमुत्तमंच मे दिंतु / किं नु हुनिआणमेअंति?, विभासा इत्थ कायव्वा // 1094 // आरोग्याय बोधिलाभ: आरोग्यबोधिलाभस्तम्, भावार्थः प्रागुक्त एव, तथा समाधिवरमुत्तमं च मे मम ददत्विति यदुक्तम्, २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1092 समाधिप्रार्थना नतिकी] - कार्थिकानि। नियुक्तिः 1093 मिथ्यात्वाज्ञानाव्रततमोभ्यो मुक्ता उत्तमाः। नियुक्तिः 1094 प्रार्थनाया | अनिदानता। // 896 //