________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ स्तव, | // 884 // रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्करप्रभवो?, बीजाभावात्, तथा चान्यैरप्युक्तं- अज्ञानपांसुपिहित २.द्वितीयपुरातनं कर्मबीजमविनाशि। तृष्णाजलाभिषिक्तं मुञ्चति जन्माङ्करः जन्तोः॥१॥ तथा-दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः।। मध्ययनम् चतुर्विंशतिकर्मबीजे तथा दग्धे, न रोहति भवाङ्करः॥१॥इति / आह- यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते इति, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयोऽपिजिना एवोच्यन्ते, तद्यथा-श्रुतजिना अवधिजिना मनःपर्याय- | नियुक्तिः 1077-79 ज्ञानजिनाः छद्मस्थवीतरागाश्च, तन्मा भूत्तेषु सम्प्रत्यय इति तदपनोदार्थं लोकस्योद्योतकरानित्याद्यप्यदुष्टमेव / अपरस्त्वाह | जिनत्वाहत्त्वे अर्हत इति न वाच्यम्, न ह्यनन्तरोदितस्वरूपा अर्हव्यतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष दर्शनादि। इति / आह- यद्येवं हन्त! तहहत एवेत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकम्, न, तस्य विशेषणसाफल्यस्य च प्रतिपादितत्वात् / अपरस्त्वाह- केवलिन इति न वाच्यम्, यथोक्तस्वरूपाणामहतां केवलित्वाव्यभिचारात्, सति च व्यभिचारसम्भवे विशेषणोपादानसाफल्यात्, तथा च-सम्भवे व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः शुक्ला बलाका इत्यादि (वत्) ऋते प्रयासात् कमर्थं पुष्णातीति?, तस्मात्केवलिन इत्यतिरिच्यते, न, अभिप्रायापरिज्ञानाद्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्य इति नियमनार्थत्वेन। स्वरूपज्ञानार्थमेवेदं विशेषणमित्यनवद्यम्, नचैकान्ततो व्यभिचारसम्भव एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथा आपो द्रव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति / न दुष्टम् / आह- यद्येवं केवलिन इत्येतदेव सुन्दरम्, शेषं तु लोकस्योद्योतकरानित्यादिकमनर्थकमिति, अत्रोच्यते, इह // 884 //