________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 883 // |स्तव, इतिकृत्वा। आह- इहाकाण्ड एव केवलचारित्रिण इति किमर्थं?, उच्यते, केवलचारित्रप्राप्तिपूर्विकैव नियमतः केवलज्ञाना 2. द्वितीयवाप्तिरिति न्यायप्रदर्शनेन नेदमकाण्डमिति गाथार्थः ॥१०७९॥व्याख्याता तावल्लोकस्येत्यादिरूपा प्रथमसूत्रगाथेति, अत्रैव। मध्ययनम् चतुर्विंशतिचालनाप्रत्यवस्थाने विशेषतो निर्दिश्य (श्ये) ते-तत्र लोकस्योद्योतकरानित्याद्युक्तम्, अत्राऽऽह- अशोभनमिदं लोकस्येति, कुतः?,लोकस्य चतुर्दशरज्ज्वात्मकत्वेन परिमितत्वात्, केवलोद्योतस्य चापरिमितत्वेनैव लोकालोकव्यापकत्वाद्, वक्ष्यति नियुक्तिः |1077-79 च- केवलियणाणलंभो लोगालोगं पगासेइ त्ति, ततश्चौघत एवोद्योतकरान् लोकालोकयोर्वेति वाच्यमिति, न, अभिप्रायापरि- जिनत्वाहत्त्वे ज्ञानात्, इहू लोकशब्देन पञ्चास्तिकाया एव गृह्यन्ते, ततश्चाकाशास्तिकायभेद एवालोक इति न पृथगुक्तः न चैतदनार्षम्, दर्शनादि / यत उक्तं- पंचत्थिकायमइओ लोगो इत्यादि। अपरस्त्वाह- लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरान् इति न वक्तव्यम्, गतार्थत्वात्, तथाहि- ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेर्मा भूत्तदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषुवा सम्प्रत्ययः, तद्व्यवच्छेदार्थं धर्मतीर्थकरानित्याह। आह- यद्येवं धर्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकरानिति न वाच्यमिति, अत्रोच्यते, इह लोकेऽपि नद्यादिविषमस्थानेषु मुधिकया (ये) धर्मार्थमवतरणतीर्थकरणशीलास्तेऽपिधर्मतीर्थकरा एवोच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेषु सम्प्रत्ययः, तदपनोदाय लोकस्योद्योतकरानप्याहेति। अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि-यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थमाह-जिनानिति, श्रूयते च कुनयदर्शने- ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् / गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥ इत्यादि, तन्नूनं न ते 0 कैवल्यज्ञानलाभो लोकालोकं प्रकाशयति। ॐ पञ्चास्तिकायमयो लोकः / // 883 //