________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 882 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1077-79 जिनत्वाहत्त्वे दर्शनादि। यथा नमस्कारनिर्युक्तौ प्रतिपादितं तथैव द्रष्टव्यमिति गाथार्थः॥१०७६॥कीर्तयिष्यामीत्यादिव्याचिख्यासया साम्प्रतमिद माह नि०- कित्तेमि कित्तणिज्जे सदेवमणुआसुरस्स लोगस्स।दसणनाणचरित्ते तवविणओदंसिओजेहिं॥१०७७॥ कीर्तयिष्यामि नामभिर्गुणैश्च, किम्भूतान्?- कीर्तनीयान्, स्तवाहा॑नित्यर्थः, कस्येत्यत्राह- सदेवमनुष्यासुरलोकस्य, त्रैलोक्यस्येति भावः, गुणानुपदर्शयति- दर्शनज्ञानचारित्राणि मोक्षहेतूनि (निति), तथा तपोविनयः दर्शितो यैः, तत्र तप एव कर्मविनयाद् विनयः, इति गाथार्थः / / 1077 // नि०-चउवीसंति य संखा उसभाईआउभण्णमाणा उ।अविसद्दग्गहणा पुण एरवयमहाविदेहेसुं॥१०७८॥ चतुर्विंशतिरिति सङ्ख्या, ऋषभादयस्ते वक्ष्यमाणा एव, अपिशब्दग्रहणात्पुनः ऐरवतमहाविदेहेषु ये तद्नुहोऽपि वेदितव्य इति / गाथार्थः // 1078 // नि०-कसिणं केवलकप्पं लोगं जाणंति तह य पासंति / केवलचरित्तनाणी तम्हा ते केवली हुँति // 1079 // कृत्स्नं सम्पूर्णं केवलकल्पं केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च सामर्थ्य वर्णनायां च, छेदने करणे तथा। औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः॥१॥ लोकं पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव सम्पूर्णमेव, चशब्दस्यावधारणार्थत्वात् पश्यन्ति सामान्यरूपतया, इह च ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे च बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, नवरं-निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते। विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् // 1 // इत्यनया दिशा स्वयमेवाभ्यूह्यमिति, यतश्चैवं केवलचारित्रिणः केवलज्ञानिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यत इति केवलिन // 882