________________ २.द्वितीयमध्ययनम् चतुर्विंशति श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 881 // नियुक्तिः 1075 कर आह- उक्तप्रयोजनसद्धावादुपन्यासोऽप्येवमेव किमिति न कृत इति, अत्रोच्यते, आसेवनयाऽयमेव प्रथमस्थाने कार्य इति ज्ञापनार्थम्, तत्र कलहो- भण्डनम्, ततश्चाप्रशस्त: कोपाद्यौदयिकभावतः, तत्करणशीलः कलहकर इति, एवं डमरादिष्वपि भावनीयम्, नवरं वाचिकः कलहः, कायवाङ्गनोभिस्ताडनादिगहनं डमरम्, समाधानं-समाधिः स्वास्थ्यं न समाधिरसमाधिःअस्वास्थ्यनिबन्धना सा सा कायादिचेष्टेत्यर्थः, अनेनैव प्रकारेण निर्वृतिरिति, एषोऽप्रशस्तः, तुशब्दस्यावधारणार्थत्वादेष एव जात्यपेक्षया न तु व्यक्त्यपेक्षयेति, अत एवाह- एवमादि विज्ञातव्यः व्यक्त्यपेक्षयाऽप्रशस्तभावकर इति गाथार्थः॥ 2074 // साम्प्रतं प्रशस्तभावकरमभिधातुकाम आह नि०- अत्थकरो अहिअकरो कित्तिकरो गुणकरो जसकरो अ। अभयकर निव्वुइकरो कुलगर तित्थंकरतकरो॥१०७५॥ तत्रौघत एव विद्यादिरर्थः, उक्तं च-विद्याऽपूर्वं धनार्जनं शुभमर्थ इति, ततश्च प्रशस्तविचित्रकर्मक्षयोपशमादिभावतः, तत्करणशीलोऽर्थकरः, एवं हितादिष्वपि भावनीयम्, नवरं हितं- परिणामपथ्यं कुशलानुबन्धि यत्किञ्चित्, कीर्तिः- दानपुण्यफला, गुणाः- ज्ञानादयः, यशः- पराक्रमकृतं गृह्यते, तदुत्थसाधुवाद इत्यर्थः, अभयादय प्रकटार्थाः, नवरमन्तः कर्मणः परिगृह्यते, तत्फलभूतस्य वा संसारस्येति गाथार्थः॥१०७५ // उक्तो भावकरः, अधुना जिनादिप्रतिपादनायाऽऽह नि०- जियकोहमाणमाया जियलोहा तेण ते जिणा हुंति / अरिणो हंता रयं हंता अरिहंता तेण वुचंति // 1076 // जितक्रोधमानमाया जितलोभा येन कारणेन तेन ते भगवन्तः, किं?- जिना भवन्ति, अरिणो हंता रयं हंते त्यादिगाथादलं 0 अनादिभवाभ्यासादासेवनमप्रशस्तस्यैवादौ भवति, प्रशस्तस्य तु पश्चादेवेति। (c) यतोऽसाविति। 0 व्यक्तिसमुदायरूपत्वात् जातेस्तस्याः प्रागुद्देशात् अत्र 8व्यक्त्यपेक्षयेति। निक्षेपादि। नियुक्तिः 1076 जिनत्वाहत्त्वे दर्शनादि। // 81