SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 879 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1065-68 तीर्थनिक्षेपादि। नि०- नामंठवणातित्थं दव्वत्तित्थं च भावतित्थं च / एक्केकंपि अइत्तोऽणेगविहं होइणायव्वं // 1065 // निगदसिद्धा // नवरं द्रव्यतीर्थं व्याचिख्यासुरिदमाह नि०-दाहोवसमंतण्हाइछेअणं मलपवाहणंचेव / तिहि अत्थेहि निउत्तं तम्हा तं दव्वओ तित्थं // 1066 // इह द्रव्यतीर्थं मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात्, तथा चाह- दाहोपशममिति तत्र दाहोबाह्यसन्तापस्तस्योपशमो यस्मिन् तद्दाहोपशमनम्, तण्हाइछेअणं ति तृष:-पिपासायाश्छेदनम्, जलसङ्घातेन तदपनयनात्, मलप्रवाहणं चैवे त्यत्र मल: बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणम्, जलेनैव तत्प्रवाहणात्, ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैस्त्रिषु वाऽर्थेषु नियुक्तं निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं द्वितीये तु नियोजितम्, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थम्, मोक्षासाधकत्वादिति गाथार्थः॥१०६६॥भावतीर्थमधिकृत्याह नि०-कोहंमि उ निग्गहिए दाहस्स पसमणं हवइ तत्थं / लोहंमि उ निग्गहिए तण्हाए छेअणं होई // 1067 // इह भावतीर्थं क्रोधादिनिग्रहसमर्थं प्रवचनमेव गृह्यते, तथा चाह क्रोध एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितम्, नान्यथा, लोभ एव निगृहीते सति, किं?- तण्हाए छेअणं होइ त्ति तृष:- अभिष्वङ्गलक्षणायाः किं?- छेदनं भवति व्यपगमो भवतीति गाथार्थः॥१०६७॥ नि०- अट्ठविहं कम्मरयं बहुएहि भवेहिं संचिअंजम्हा / तवसंजमेण धुव्वइ तम्हा तंभावओ तित्थं // 1068 // अष्टविधं अष्टप्रकारम्, किं?- कर्मरजः कर्मैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सञ्चितं यस्मात्तपःसंयमेन धाव्यते शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थम्, मोक्षसाधनत्वादिति गाथार्थः॥१०६८॥ // 879 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy