________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः |1060-61 द्रव्यभावोद्योतः। भाग-३ // 877 // सम्यक्प्रतिपत्तेरभावात्सकलवस्तुधर्मानुद्योतनाच्च, न हि धर्मास्तिकायादयः सदसन्नित्यानित्याद्यनन्तधर्मात्मकस्य च वस्तुनः सर्व एव धर्मा अग्निना उद्योत्यन्त इत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, ततश्च स्थितमिदं- अग्निर्द्रव्योद्योतः, तथा चन्द्रः सूर्यो मणिर्विद्युदिति, तत्र मणिः- चन्द्रकान्तादिलक्षण परिगृह्यत इति गाथार्थः // 1059 // नि०- नाणं भावुजोओजह भणियं सव्वभावदंसीहिं। तस्स उवओगकरणे भावुलोअंविआणाहि॥१०६०॥ ज्ञायतेऽनेन यथावस्थितं वस्त्विति ज्ञानं तज्ज्ञानं भावोद्योतः, घटाद्युद्योतनेन तद्गतायाः सम्यक्प्रतिपत्तेर्विश्वप्रतिपत्तेश्च भावात्, तस्य तदात्मकत्वादेवेति भावना, एतावता चाविशेषेणैव ज्ञानं भावोद्योत इति प्राप्तम्, अत आह- यथा भणितं सर्वभावदर्शिभिस्तथा यज्ज्ञानम्, सम्यग्ज्ञानमित्यर्थः, पाठान्तरं वा यद्भणितं सर्वभावदर्शिभि रिति, तदपि नाविशेषेणोद्योतः, किन्तु तस्य- ज्ञानस्योपयोगकरणे सति, किं?, भावोद्योतं विजानीहि, नान्यदा, तदैव तस्य वस्तुतः ज्ञानत्वसिद्धेरिति गाथार्थः // 1060 // इत्थमुद्योतस्वरूपमभिधाय साम्प्रतं येनोद्योतेन लोकस्योद्योतकरा जिनास्तेनैव युक्तानुपदर्शयन्नाह| नि०- लोगस्सुजोअगरा दव्वुजोएण नहु जिणा हुंति / भावुजोअगरा पुण हुंति जिणवरा चउव्वीसं॥१०६१॥ लोकस्योद्योतकरा द्रव्योद्योतेन नैव जिना भवन्ति, तीर्थकरनामानुकर्मोदयतोऽतुलसत्त्वार्थकरणात् भावोद्योतकराः पुनर्भवन्ति जिनवराश्चतुर्विंशतिरिति, अत्र पुनःशब्दो विशेषणार्थः, आत्मानमेवाधिकृत्योद्योतकरास्तथा लोकप्रकाशकवचनप्रदीपापेक्षया चशेषभव्यविशेषानधिकृत्यैवेति, अत एवोक्तं भवन्ति न तु भवन्त्येव, कांश्चन प्राणिनोऽधिकृत्योद्योतकरत्वस्यासम्भवादिति, चतुर्विंशतिग्रहणं चाधिकृतावसर्पिणीगततीर्थकरसङ्घयाप्रतिपादनार्थमिति गाथार्थः॥ 1061 // उद्योताधिकार एव ®न ह्यग्निः स्वं जानाति नवा नियमेन सम्यक्प्रतिपर्त्तिद्रष्टणां सर्वपर्यायाणमप्रकाशात् स्थूलद्रव्यपर्यायप्रकाशनाद्वा। // 877 //