________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 876 // भा०- वन्नरसगंधसंठाणफासट्ठाणगइवन्नभेए ।परिणामे अबहुविहे पज्जवलोगं विआणाहि॥२०३॥ वर्णरसगन्धसंस्थानस्पर्शस्थानगतिवर्णभेदाश्च, चशब्दाद् रसादिभेदपरिग्रहः, अयमत्र भावार्थ:- वर्णादयः सभेदा गृह्यन्ते, तत्र वर्णः कृष्णादिभेदात् पञ्चधा, रसोऽपि तिक्तादिभेदात्पञ्चधा, गन्धः सुरभिरित्यादिभेदा द्विधा, संस्थानं परिमण्डलादिभेदात्पञ्चधैव, स्पर्शः कर्कशादिभेदादष्टधा, स्थानमवगाहनालक्षणं तदाश्रयभेदादनेकधा, गतिः स्पर्शवद्गतिरित्यादिभेदा द्विधा, चशब्द उक्तार्थ एव अथवा कृष्णादिवर्णादीनां स्वभेदापेक्षया एकगुणकृष्णाद्यनेकभेदोपसङ्ग्रहार्थ इति, अनेन किल द्रव्यगुणा इत्येतद्व्याख्यातम् / परिणामांश्च बहुविधानित्यनेन तु चरमद्वारम्, शेषं द्वारद्वयं स्वयमेव भावनीयम्, तच्च भावितमेवेत्यक्षरगमनिका भावार्थस्त्वयं- परिणामांश्च बहुविधान् जीवाजीवभावगोचरान्, किं?- पर्यायलोकं विजानीहि इति गाथार्थः // 203 / / अक्षरयोजना पूर्ववदिति द्वारम्, साम्प्रतं लोकपर्यायशब्दान्निरूपयन्नाह नि०- आलुक्कड़ अपलुक्कइ लुक्कइ संलुक्कई अएगट्ठा / लोगो अट्टविहो खलु तेणेसो वुच्चई लोगो॥१०५८॥ आलोक्यत इत्यालोकः, प्रलोक्यत इति प्रलोकः, लोक्यत इति लोकः, संलोक्यत इति च संलोकः, एते एकार्थिकाः शब्दाः, लोकः अष्टविधः खल्वित्यत्र आलोक्यत इत्यादि योजनीयम्, अत एवाऽऽह- तेनैष उच्यते लोको येनाऽऽलोक्यत इत्यादि भावनीयम्, गाथार्थः // 1058 // व्याख्यातो लोकः, इदानीमुद्योत उच्यते, तत्राह नि०-दुविहो खलु उज्जोओ नायव्वो दव्वभावसंजुत्तो। अग्गी दव्वुजोओचंदो सूरोमणी विजू // 1059 // द्विविधः द्विप्रकारः खलुद्योतः, खलुशब्दो मूलभेदापेक्षया न तु व्यक्त्यपेक्षयेति विशेषणार्थः, उद्योत्यते प्रकाश्यतेऽनेनेत्युद्योतः, ज्ञातव्यः विज्ञेयो, द्रव्यभावसंयुक्त इति- द्रव्योद्योतो भावोद्योतश्चेत्यर्थः, तत्राग्निद्रव्योद्योतः घटाद्युद्योतनेऽपितद्गतायाः २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1057 लोकनिक्षेपाः। भाष्यः 203 नियुक्तिः 1058 लोकैकार्थिकानि। नियुक्तिः 1059 द्रव्यभावोद्योतः। // 876 //