SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1057 लोकनिक्षेपाः। भाष्यः 199-200 // 874 // इह परमनिकृष्टः कालः समयोऽभिधीयते असङ्खयेयसमयमाना त्वावलिका द्विघटिको मुहूर्तः षोडश मुहूर्ता दिवसः द्वात्रिंशदहोरात्रं पञ्चदशाहोरात्राणि पक्षः द्वौ पक्षौ मासः द्वादश मासाः संवत्सरमिति पञ्चसंवत्सरं युगं पल्योपममुद्धारादिभेदं यथाऽनुयोगद्वारेषु तथाऽवसेयम्, सागरोपमं तद्वदेव, दशसागरोपमकोटाकोटिपरिमाणोत्सर्पिणी, एवमवसर्पिण्यपि द्रष्टव्या, परावर्तः पुद्गलपरावर्तः, सचानन्तोत्सर्पिण्यवसर्पिणीप्रमाणो द्रव्यादिभेदः, तेऽनन्ता अतीतकालः अनन्त एवैष्यन्निति गाथार्थः॥ 198 // उक्तः काललोकः, लोकयोजना पूर्ववद् / अधुना भवलोकमभिधित्सुराह भा०-णेरइअदेवमणुआ तिरिक्खजोणीगया य जे सत्ता / तंमि भवे वटुंता भवलोगं तं विआणाहि // 199 / / नारकदेवमनुष्यास्तथा तिर्यग्योनिगताश्च ये सत्त्वाः प्राणिनः तंमि त्ति तस्मिन् भवे वर्तमाना यदनुभावमनुभवन्ति भवलोकं तं विजानीहि, लोकयोजना पूर्ववदिति गाथार्थः॥१९९ // साम्प्रतं भावलोकमुपदर्शयति भा०- ओदइए 1 ओवसमिए 2 खइए अ 3 तहाखओवसमिए अ४।परिणामि 5 सन्निवाए अ६ छव्विहोभावलोगोउ॥२०॥ उदयेन निर्वृत्त औदयिकः, कर्मण इति गम्यते, तथोपशमेन निर्वृत्त औपशमिकः, क्षयेण निर्वृत्तः क्षायिकः, एवं शेषेष्वपि वाच्यम्, ततश्च क्षायिकश्च तथा क्षायोपशमिकश्च पारिणामिकश्च सान्निपातिकश्च, एवं षड्विधो भावलोकस्तु, तत्र सान्निपातिक ओघतोऽनेकभेदोऽवसेयः, अविरुद्धस्तु पञ्चदशभेद इति, उक्तंच-ओदइअखओवसमे परिणामेक्केक्को(क्कु)गइचउक्केऽवि।खयजोगेणवि चउरो तदभावे उवसमेणंपि॥१॥उवसमसेढी एक्को केवलिणोऽवि य तहेव सिद्धस्स। अविरुद्धसन्निवाइयभेया एमेव पण्णरस // 2 // Gऔदयिकः क्षायोपशमिकः पारिणामिक एकैको गतिचतुष्केऽपि / क्षययोगेनापि चत्वारः तदभावे उपशमेनापि // 1 // उपशमश्रेणावेकः केवलिनोऽपि च तथैव सिद्धस्य / अविरुद्धसान्निपातिकभेदा एवमेव पञ्चदश / / 2 / / // 874 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy