________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 873 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1057 लोकनिक्षेपाः। भाष्यः 196-198 स्तिकायस्तु द्रव्याद्यपेक्षया चिन्त्यः, यथा- द्रव्यतः परमाणुरप्रदेशो व्यणुकादयः सप्रदेशाः, क्षेत्रत एकप्रदेशावगाढोऽप्रदेशो व्यादिप्रदेशावगाढाः सप्रदेशाः, एवं कालतोऽप्येकानेकसमयस्थितिर्भावतोऽप्येकानेकगुणकृष्णादिरिति कृतं विस्तरेण, प्रकृतमुच्यते- इदमेवम्भूतं जीवाजीवव्रातं जानीहि द्रव्यलोकम्, द्रव्यमेव लोको द्रव्यलोक इतिकृत्वा, अस्यैव शेषधर्मोपदर्शनायाऽऽह-नित्यानित्यं च यद् द्रव्यम्, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चय इतिगाथार्थः॥१९५॥साम्प्रतंजीवाजीवयोनित्यानित्यतामेवोपदर्शयन्नाह भा०- गइ१सिद्धा र भविआया ३अभविअ४-१ पुग्गल 1 अणागयद्धाय ।तीअद्ध ३तिन्नि काया 4-2 जीवा१जीव 2 ट्ठिई चउहा / / 196 // अस्याःसामायिकव व्याख्या कार्येति, भङ्गकास्तुसादिसपर्यवसानाः साद्यपर्यवसानाः अनादिसपर्यवसाना अनाद्यपर्यवसानाः, एवमजीवेषु जीवाजीवयोरष्टौ भङ्गाः॥ द्वारम् / अधुना क्षेत्रलोकः प्रतिपाद्यते, तत्र भा०- आगासस्स पएसा उडेच अहे अतिरियलोए / जाणाहि खित्तलोगं अणंत जिणदेसिअंसम्मं // 197 // आकाशस्य प्रदेशाः- प्रकृष्टा देशाः प्रदेशास्तान् ऊर्ध्वं च इत्यूर्ध्वलोके च अधश्च इत्यधोलोके च तिर्यग्लोके च, किं?जानीहि क्षेत्रलोकम्, क्षेत्रमेव लोकः क्षेत्रलोक इतिकृत्वा, लोक्यत इति च लोक इति, ऊर्ध्वादिलोकविभागस्तु सुज्ञेयः, अनन्त मित्यलोकाकाशप्रदेशापेक्षया चानन्तम्, अनुस्वारलोपोऽत्र द्रष्टव्यः, जिनदेशितं इति जिनकथितं सम्यक् शोभनेन विधिनेति गाथार्थः॥१९७॥ साम्प्रतं काललोकप्रतिपादनायाह__ भा०-समयावलिअमुहुत्ता दिवसमहोरत्तपक्खमासा य / संवच्छरजुगपलिआ सागरओसप्पिपरिअट्टा // 198 // // 873 //