SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 872 // 2. द्वितीयमध्ययनम् चतुर्विंशति|स्तव, नियुक्तिः 1057 | लोकनिक्षेपाः। भाष्यः१९५ केवलिनस्तान् केवलिन इति / उक्तः पदार्थः, पदविग्रहोऽपि यथावसरं यानि समासभाजि पदानि तेषु दर्शित एव / साम्प्रतं चालनावसरः, तत्र तिष्ठतु तावत्सा, सूत्रस्पर्शिका नियुक्तिरेवोच्यते, स्वस्थानत्वाद्, उक्तंच-अक्खलियसंहियाई वक्खाणचउक्कए दरिसियंमि। सुत्तप्फासियणिज्जुत्तिवित्थरत्थो इमो होइ॥१॥चालनामपि चात्रैव वक्ष्यामः, तत्र लोकस्योद्योतकरानिति यदुक्तं तत्र लोकनिरूपणायाऽऽह नि०-णाम १ठवणा र दविए 3 खित्ते 4 काले 5 भवे अ६भावे अ७।पज्जवलोगे अ८ तहा अट्ठाविहोलोगणिक्खेवो॥१०५७॥ B नामलोकः स्थापनालोकः द्रव्यलोकः क्षेत्रलोकः काललोकः भवलोको भावलोकश्च पर्यायलोकाश्च तथा, एवमष्टविधो लोकनिक्षेप इति गाथासमासार्थः // व्यासार्थं तु भाष्यकार एव वक्ष्यति, तत्र नामस्थापने अनादृत्य द्रव्यलोकमभिधित्सुराह___भा०- जीवमजीवेरूवमरूवी सपएसमप्पएसे अ।जाणाहि दव्वलोगं णिच्चमणिचंचजंदव्वं // 195 // जीवाजीवावित्यत्रानुस्वारोऽलाक्षणिकः, तत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च द्विभेदौरूप्यरूपिभेदाद, आह च- रूप्यरूपिणावि ति, तत्रानादिकर्मसन्तानपरिगता रूपिणः- संसारिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति, अजीवास्त्वरूपिणो धर्माधर्माकाशास्तिकायाः रूपिणस्तु परमाण्वादय इति, एतौ च जीवाजीवावोघतः सप्रदेशाप्रदेशाववगन्तव्यौ, तथा चाह-सप्रदेशाप्रदेशावि ति, तत्र सामान्यविशेषरूपत्वात्परमाणुव्यतिरेकेण सप्रदेशाप्रदेशत्वं सकलास्तिकायानामेव भावनीयम्, परमाणवस्त्वप्रदेशा एव, अन्ये तुव्याचक्षते- जीवः किल कालादेशेन नियमात् सप्रदेशः, लब्ध्यादेशेन तु सप्रदेशो वाऽप्रदेशो वेति, एवं धर्मास्तिकायादिष्वपि त्रिष्वस्तिकायेषु परापरनिमित्तं पक्षद्वयं वाच्यम्, पुद्गला 0 अस्खलितसंहितादौ व्याख्यानचतुष्के दर्शिते। सूत्रस्पर्शिकनियुक्तिविस्तरार्थोऽयं भवति॥१॥ // 872 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy