________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 871 // णिक्खेवो। सुत्तप्फासियणिज्जुत्ति णया य समगं तु वच्चंति॥१॥ विषयविभागः पुनरमीषामयं वेदितव्यः-होइ कयत्थो वोत्तुं / 2. द्वितीयसपयच्छेयं सुयं सुयाणुगमो। सुत्तालावयणासो णामाइण्णासविणिओगं॥१॥ सुत्तप्फासियणिज्जुत्तिणिओगो सेसओ पयत्थाई। पायं मध्ययनम् सोच्चिय णेगमणयाइमयगोयरो भणिओ॥२॥अत्राऽऽक्षेपपरिहारा न्यक्षेण सामायिकाध्ययने निरूपिता एव नेह वितन्यत इत्यलं चतुर्विंशति स्तव, विस्तरेण, तावद्द्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं सूत्रं सूत्रम् 1(2) लोगस्स०। लोगस्सुजोयगरे, धम्मतित्थयरे जिणे / अरिहन्ते कित्तइस्सं, चउवीसंपि केवली।सूत्रम् 1 // (2) अस्य, तल्लक्षणं चेदं-'संहिता चे'त्यादि पूर्ववत्, तत्रास्खलितपदोच्चारणं संहिता, यद्वा परः संनिकर्ष इति, सा चेयंलोगस्सुजोयगरे इत्यादि पाठः / अधुना पदानि, लोकस्य उद्योतकरान् धर्मतीर्थकरा जिनान् अर्हतः कीर्तयिष्यामि चतुर्विंशतिमपि केवलिनः / अधुना पदार्थः- लोक्यत इति लोकः, लोक्यते-प्रमाणेन दृश्यत इति भावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किं?- उद्योतकरणशीला उद्योतकरास्तान्, केवलालोकेन तत्पूर्वकप्रवचनदीपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, उक्तं च- दुर्गतिप्रसृतान् जीवा नित्यादि, तथा तीर्यतेऽनेनेति तीर्थं धर्म एव धर्मप्रधानंवा तीर्थं धर्मतीर्थं तत्करणशीला:धर्मतीर्थकरास्तान्,तथा रागद्वेषकषायेन्द्रियपरीषहोपसर्गाष्टप्रकारकर्मजेतृत्वाजिनास्तान्, तथा अशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामहन्तीत्यर्हन्तस्तानर्हतः,कीर्तयिष्यामीति स्वनामभिः स्तोष्य इत्यर्थः, चतुर्विंशतिरिति सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थः, केवलज्ञानमेषां विद्यत इति // 871 // +- निक्षेपः। सूत्रस्पर्शिकनियुक्तिः नयाश्च युगपदेव व्रजन्ति // 1 // भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः / सूत्रालापकन्यासो नामादिन्यासविनियोगम्॥ 1 // सूत्रस्पर्शिकनियुक्तिनियोगः शेषः पदार्थादिः / प्रायः स एव नैगमनयादिमतगोचरो भणितः / / 2 / /