________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1175 // नि०- आलोय॑णा निरवलावे, आवईसुदधम्मया। अणिस्सिओवहाणे य, सिक्खा णिप्पडिकम्मया // 1274 // नि०- अण्णायया अलोहे य, तितिक्खा अज्जवे सुई। सम्मदिट्ठी समाही य, आयारे विणओवए / / 1275 // मध्ययनम् प्रतिक्रमणं, नि०- धिंई मईय संवेगे, पणिही सुविहि संवरे। अत्तदोसोवसंहारो, सव्वकामविरत्तिया // 1276 // |4.4 योगनि०- पञ्चक्खाणां विउस्सग्गे, अप्पमाए लवालवे।झाणसंवरजोगे य, उद्दए मारणंतिए / 1277 // सङ्ग्रहाः। नि०-संगाणंच परिण्णा, पायच्छित्तकरणे इय / आराहणा य मरणंते, बत्तीसंजोगसंगहा / / 1278 / / नियुक्तिः 1274-78 आलोयण त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या 1, निरवलावे त्ति आचार्योऽपि आलोचनाप्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव दत्तायामालोचनायां निरपलाप: स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते निरलाप तादयो प्रथमान्तो भवतीत्यसकृदावेदितं यथा-'कयरे आगच्छइ दित्तरूवें' इत्यादि 2, आवतीसु दढधम्मत त्ति तथा योगसङ्गहायैव योगसङ्ग्रहाः। सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः, 3, अणिस्सिओवहाणे / त्ति प्रशस्तयोगसङ्गहायैवानिश्रितोपधानंच कार्यम्, अथवा-ऽनिश्रित उपधाने च यत्नः कार्यः, उपदधातीत्युपधानं-तपः न निश्रितमनिश्रितं- ऐहिकामुष्मिकापेक्षाविकलमित्यर्थः, अनिश्रितं च तदुपधानं चेति समासः 4, सिक्ख त्ति प्रशस्तयोगसङ्गहायैव शिक्षाऽऽसेवितव्या, सा च द्विप्रकारा भवति- ग्रहणशिक्षाऽऽसेवनाशिक्षा च 5, निप्पडिकम्मय त्ति प्रशस्तयोगसङ्ग्रहायैव निष्प्रतिकर्मशरीरता सेवनीया, न पुनर्नागदत्तवदन्यथा वर्तितव्यमिति 6 प्रथमगाथासमासार्थः ॥अन्नायय त्ति तपस्यज्ञातता कार्या, यथाऽन्यो न जानाति तथा तपः कार्यम्, प्रशस्तयोगाः सङ्गहीता भवन्तीत्येतत् सर्वत्र योज्यं 7, अलोहे त्ति अलोभश्च कार्यः, अथवाऽलोभे यत्नः कार्यः 8, तितिक्ख त्ति तितिक्षा कार्या, परीषहादिजय इत्यर्थः९, अजवे // 1175 //