________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1168 // निगदसिद्धा / सप्तविंशतिप्रकारेऽनगारचारित्रे सति- साधुचारित्रे सति तद्विषयो वा प्रतिषिद्धादिना प्रकारेण योऽतिचारः कृत इति प्राग्वत्, सप्तविंशतिभेदान् प्रतिपादयन्नाह सङ्ग्रहणिकारः वयछक्कमिंदियाणंच निग्गहो भावकरणसच्चं च।खमयाविरागयाविय मणमाईणं निरोहो य॥१॥ कायाण छक्क जोगाण जुत्तया वेयणाऽहियासणया। तह मारणंतियऽहियासणा य एएऽणगारगुणा // 2 // गाथाद्वयम्,अस्य व्याख्या-व्रतषट्कं- प्राणातिपातादिविरतिलक्षणं रात्रिभोजनविरतिपर्यवसानम्,इन्द्रियाणां च श्रोत्रादीनां निग्रहः-इष्टतरेषुशब्दादिषुरागद्वेषाकरणमित्यर्थः,भावसत्यं-भावलिङ्गमन्तःशुद्धिः,करणसत्यं च बाह्यं प्रत्युपेक्षणादिकरणसत्यं भण्यते, क्षमा क्रोधनिग्रहः, विरागता लोभनिग्रहः, मनोवाक्कायानामकुशलानामकरणं कुशलानामनिरोधश्च, कायानांपृथिव्यादिनां षट्कं सम्यगनुपालनविषयतयाऽनगारगुणा इति, संयमयोगयुक्तता, वेदनाशीतादिलक्षणा तदभिसहना वा, तथा मारणान्तिकाऽभिसहना च-कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमित्यर्थः एतेऽनगारगुणा इतिगाथाद्वयार्थः ॥अष्टाविंशतिविध आचार एवाऽऽचारप्रकल्पः, क्रिया पूर्ववत्, अष्टाविंशतिभेदान् दर्शयति सत्थपरिण्णा लोगो विजओय सीओसणिज्ज संमत्तं / आवंति धुवविमोहो उवहाणसुय महापरिण्णा य॥१॥ पिंडेसणसिजि रिया भासजाया यवत्थपाएंसा। उन्हपडिमा सत्तेक्वतयं भावणविमुत्तीओ॥२॥ उग्घायमणुग्घायं आरूवणा तिविहमो णिसीहंतु। इय अट्ठावीसविहो आयारपकप्पणामोऽयं // 3 // गाथात्रयं निगदसिद्धमेव, एकोनत्रिंशद्भिः पापश्रुतप्रसङ्गैः, क्रिया पूर्ववत्, पापोपादानानि श्रुतानि पापश्रुतानि तेषां प्रसङ्गाःतथाऽऽसेवनारूपा इति, पापश्रुतानि दर्शयन्नाह सङ्ग्रहणिकार: 4. चतुर्थमध्ययनम् प्रतिक्रमणं, |4.3 षष्ठादियावत् एकत्रिंशत्स्थानानि। सूत्रम् | 22(23) | एक्कवीसाए सबलेहि। दशाकल्पव्यवहारः। अणगार // 12 //