SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1164 // तिष्ठता याशापरीषहजयः कृतो भवति 14, अलाभत्ति याचितालाभेऽपि प्रसन्नचेतसैवाविकृतवदनेन भवितव्यं 15, रोग त्ति 4. चतुर्थरोग:- ज्वरातिसारकासश्वासादिस्तस्य प्रादुर्भावे सत्यपिन गच्छनिर्गताश्चिकित्सायांप्रवर्तन्ते, गच्छवासिनस्त्वल्पबहुत्वा मध्ययनम् प्रतिक्रमणं, लोचनया सम्यक् सहन्ते, प्रवचनोक्तविधिना प्रतिक्रियामाचरन्तीति, एवमनुतिष्ठतारोगपरीषहजयः कृतो भवति 16, तणफास 4.3 षाहादित्ति अशुषिरतृणस्य दर्भादेः परिभोगोऽनुज्ञातो गच्छनिर्गतानां गच्छनिवासिनांच, तत्र येषां शयनमनुज्ञातं निष्पन्नानां ते तान यावत् एकत्रि शत्स्थानानि। दर्भान् भूमावास्तीर्य संस्तारोत्तरपट्टकौ च दर्भाणामुपरि विधाय शेरते, चौरापहृतोपकरणा वा प्रतनुसंस्तारपट्टकावत्यन्तजीर्ण सूत्रम् त्वात्, तथाऽपितं परुषकुशदर्भादितृणस्पर्श सम्यक् सहेत 17, मल त्ति स्वेदवारिसम्पर्कात्कठिनीभूतं रजो मलोऽभिधीयते, सवपुषि स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतांगतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिद एकवीसाए सबलेहि। भिलषेत्- अभिलाषं कुर्यात् 18, सक्कारपरीसहे त्ति सत्कारो- भक्तपानवस्त्रपात्रादीनां परतो लाभः पुरस्कारः-सद्धृतगुणो शबलानि त्कीर्तनं वन्दनाभ्युत्थानासनप्रदानादिव्यवहारश्च, तत्रासत्कारितोऽपुरस्कृतो वा न द्वेषं यायात् 19, पण्ण त्ति प्रज्ञायतेऽनयेति परिषहानि। प्रज्ञा- बुद्ध्यतिशयः, तत्प्राप्तौ न गर्वमुद्वहेत् 20, अण्णाणं ति कर्मविपाकजादज्ञानान्नोद्विजेत 21, असंमत्तं ति असम्यक्त्वपरीषहः, सर्वपापस्थानेभ्यो विरतः प्रकृष्टतपोऽनुष्ठायी निःसङ्गश्चाहं तथापि धर्माधर्मात्मदेवनारकादिभावान्नेक्षे अतो मृषा समस्तमेतदिति असम्यक्त्वपरीषहः, तत्रैवमालोचयेत्- धर्माधर्मी पुण्यपापलक्षणौ यदि कर्मरूपौ पुद्गलात्मको ततस्तयोः कार्यदर्शनानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादिको धर्माधर्मी ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, // 1164 // देवास्त्वत्यन्तसुखासक्तत्वान्मनुष्यलोके कार्याभावात् दुष्षमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तीव्रवेदनार्ताः / पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीत्येवमालोचयतोऽसम्यक्त्वपरीषहजयो भवति, 'बावीस /
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy