SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1163 // ऽपिन जलावगाहनस्नानव्यजनवातादिवाञ्छयेत्, नैवातपत्राद्युष्णत्राणायाऽऽददीतेति, उष्णमापतितंसम्यक् सहेत, एवमनु- . चतुर्थतिष्ठतोष्णपरीषहजयः कृतो भवति 4, दस त्ति दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत्, न च तदपनयनार्थं 8 प्रतिक्रमणं, धूमादिना यतेत, न च व्यजनादिना निवारयेदिति, एवमनुतिष्ठता दंशपरिषहजयः कृतो भवति 5, एवमन्यत्रापि क्रिया है 4.3 षष्ठादियोज्या, अचेल त्ति अमहाधनमूल्यानिखण्डितानि जीर्णानि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत्, तथा चागमः- यावत् एकत्रिं शत्स्थानानि। परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए। अदुवा सचेलए होक्खं, इति भिक्खू न चिंतए ॥१॥इत्यादि६, अति त्ति विहरतस्तिष्ठतो सूत्रम् वायद्यरतिरुत्पद्यते तत्रोत्पन्नारतिनाऽपिसम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यम् 7, इत्थीउत्ति नस्त्रीणामङ्ग- 22(23) प्रत्यङ्गसंस्थानहसितललितनयनविभ्रमादिचेष्टां चिन्तयेत्, न जातुचिच्चक्षुरपितासु निवेशयेत् मोक्षमार्गार्गलासुकामबुद्ध्येति एकवीसाए सबलेहि। 8, चरिय त्ति वर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिर्निर्ममत्वः प्रतिमासं चर्यामाचरेदिति 9, निसीहिय त्ति शबलानि निषीदन्त्यस्यामिति निषद्या- स्थानं तत् स्त्रीपशुपण्डकविवर्जितावसतिं सेवेत पश्चाद्भाविनस्त्विष्टानिष्टोपसर्गान् सम्यगधिसहेत परिषहानि। 10, सेज्जत्ति शय्या संस्तारकः- चम्पकादिपट्टो मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांशूत्करप्रचुरः शिशिरो बहुधर्मको वा तत्र नोद्विजेत 11, अक्कोस त्ति आक्रोशः- अनिष्टवचनं तच्छ्रुत्वा सत्येतरालोचनया न कुप्येत 12, वह त्ति वधः- ताडनं पाणिपाणिलताकशादिभिः, तदपिशरीरमवश्यंतया विध्वंसत एवेति मत्वा सम्यक् सहेत, स्वकृतकर्मफलमुपनतमित्येवमभिसंचिन्तयेत् 13, जायण त्ति याचनं-मार्गणम्, भिक्षोर्हि वस्त्रपात्रानपानप्रतिश्रयादि परतो लब्धव्यं सर्वमेव, शालीनतया 8 चन याश्चां प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा सजाते कार्ये स्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति, एवमनु 0 परिजीर्णेषु वस्त्रेषु भविष्याम्यचेलकः / अथवा सचेलको भविष्यामीति भिक्षुर्न चिन्तयेत् // 1 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy