________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1144 // जीव०। सङ्ग्रहणिकार: 4. चतुर्थजाईकुलबलरूवे तवईसरिए सुए लाहे॥१॥ मध्ययनम् प्रतिक्रमणं, कश्चिन्नरेन्द्रादिः प्रव्रजितो जातिमदं करोति, एवं कुलबलरूपतपऐश्वर्यश्रुतलाभेष्वपि योज्यमिति // नवभिर्ब्रह्मचर्यगुप्तिभिः, 4.3 षष्ठादिशेषं पूर्ववत्, ताश्चेमाः यावत् एकत्रिं शत्स्थानानि। वसहिकहनिसिल्जिंदियकुड्डुतरपुव्वकीलियपणीए। अइमायाहारविभूसंणा य नव बंभगुत्तीओ॥१॥ सूत्रम् ब्रह्मचारिणा तद्प्त्यनुपालनपरेण न स्त्रीपशुपण्डकसंसक्ता वसतिरासेवनीया, न स्त्रीणामेकाकिनां कथा कथनीया, न 21(22) स्त्रीणां निषद्या सेवनीया, उत्थितानां तदासने नोपवेष्टव्यम्, न स्त्रीणामिन्द्रियाण्यवलोकनीयानि, न स्त्रीणां कुड्यान्तरितानां पडि० छहिं मोहनसंसक्तानां क्वणितध्वनिराकर्णयितव्यः, न पूर्वक्रीडितानुस्मरणं कर्तव्यम्, न प्रणीतं भोक्तव्यम्, स्निग्धमित्यर्थः, नातिमात्रा- ब्रह्मचर्यगुप्तयः हारोपभोगः कार्यः, न विभूषा कार्या, एता नव ब्रह्मचर्यगुप्तय इति गाथार्थः॥ श्रमणः- प्राग्निरूपितशब्दार्थस्तस्य धर्म: श्रमणधर्मः। क्षान्त्यादिलक्षणस्तस्मिन् दशविधे- दशप्रकारे श्रमणधर्मे सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना। दशविधधर्मस्वरूपप्रतिपादनायाह सङ्गहणिकार: खंतीय मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे / सच्चं सोयं आकिंचणंच बंभं च जइधम्मो॥१॥ क्षान्तिः श्रमणधर्मः, क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावः मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, // 1144 // तथा ऋजुभाव आर्जवं-मायापरित्यागः, मोचनं मुक्तिः, लोभपरित्याग इति भावना, तपोद्वादशविधमनशनादिः, संयमाश्चाश्रवविरतिलक्षण: बोद्धव्यः विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतम्, शौचं संयम प्रति निरुपलेपता, आकिञ्चन्यं च, कनकादि