________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1143 // सव्वे मारेहत्ती वट्टइ सो किण्हलेसपरिणामो। एवं कमेण सेसा जा चरमो सुक्कलेसाए॥१०॥आदिल्लतिण्णि एत्थं अपसत्था / 4. चतुर्थउवरिमा पसत्था उ। अपसत्थासुं वट्टिय न वट्टियं जं पसत्थासुं॥११॥ एसऽइयारो एयासु होइ तस्स य पडिक्कमामित्ति। मध्ययनम् प्रतिक्रमणं, पडिकूलं वट्टामी जं भणियं पुणो न सेवेमि // 12 // प्रतिक्रमामि सप्तभिर्भयस्थानैः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत 4.3 षष्ठादिइति, तत्र भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामस्तस्य स्थानानि- आश्रया भयस्थानानि- इहलोकादीनि, तथा चाह यावत् एकत्रिं शत्स्थानानि। सङ्ग्रहणिकारः सूत्रम् इहपरलोयादाणमकम्हाआजीवमरणमसिलोए' त्ति / 21(22) पडि० छहिं अस्य गाथाशकलस्य व्याख्या- इहपरलोअत्ति इहलोकभयं परलोकभयम्, तत्र मनुष्यादिसजातीयादन्यस्मान्मनुष्यादेरेव जीव०। सकाशात् भयमिहलोकभयम्, विजातीयात्तु तिर्यग्देवादेः सकाशाद्भयं परलोकभयम्, आदीयत इत्यादानं- धनंतदर्थं चौरादि- भयस्थानानि भ्यो यद्भयं तदादानभयम्, अकस्मादेव- बाह्यनिमित्तानपेक्षं गृहादिष्वेवावस्थितस्य रात्र्यादौ भयमकस्माद्भयम्, आजीवे ति मदस्थानानि। आजीविकाभयं निर्धनः कथं दुर्भिक्षादावात्मानं धारयिष्यामीत्याजीविकाभयम्, मरणादयं मरणभयं प्रतीतमेव, असिलोगो त्ति अश्लाघाभयं- अयशोभयमित्यर्थः, एवं क्रियमाणे महदयशो भवतीति तद्भयान्न प्रवर्तत इति गाथाशकलाक्षरार्थः॥ मदः- मान (ग्रन्थाग्रं०१६५००) स्तस्य स्थानानि-पर्याया भेदा मदस्थानानि, इह च प्रतिक्रमामीति वर्तते, अष्टभिर्मदस्थानः करणभूतैर्यो मया दैवसिकोऽतिचारः कृत इति, एवमन्येष्वपि सूत्रेष्वायोज्यम्, कानि पुनरष्टौ मदस्थानानि?, अत आह सर्वान् मारयतेति वर्तते स कृष्णलेश्यापरिणामः। एवं क्रमेण शेषाः यावच्चरमः शुक्ललेश्यायाम् ॥१०॥आद्यास्तिस्रोऽत्राप्रशस्ताउपरितनाः प्रशस्तास्तु / अप्रशस्तासु वृत्तं न वृत्तं प्रशस्तासु यत्॥ 11 // एषोऽतिचार एतासु भवति तस्माच्च प्रतिक्राम्यामि। प्रतिकूलं वर्ते यद्भणितं पुनर्न सेवे॥ 12 // // 1143 //