SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 869 // 2. द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1056 चतुर्विंशते: स्तवस्य च निक्षेपाः। भाष्य: 194 षड्जीवकायसंयम इति षण्णां जीवनिकायानां पृथिव्यादिलक्षणानां संयमः-सङ्घट्टनादिपरित्यागः षड्जीवकायसंयमः, असौ हितम्, यदि नामैवं ततः किमित्यत आह- द्रव्यस्तवे पुष्पादिसमभ्यर्चनलक्षणे स षड्जीवकायसंयमः, किं?- विरुध्यते नसम्यक् संपद्यते, कृत्स्नः सम्पूर्ण इति, पुष्पादिसंलुञ्चनसङ्घटनादिना कृत्स्नसंयमानुपपत्तेः, यतश्चैवं ततः तस्मात् कृत्स्नसंयमविद्वांस इति कृत्स्नसंयमप्रधाना विद्वांसस्तत्त्वतः साधव उच्यन्ते, कृत्स्नसंयमग्रहणमकृत्स्नसंयमविदुषां श्रावकाणांव्यपोहार्थम्, ते किं?,अत आह- पुष्पादिकं द्रव्यस्तवं नेच्छन्ति न बहु मन्यन्ते, यच्चोक्तं-'द्रव्यस्तवे क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसाय'इत्यादि, तदपि यत्किञ्चिद्, व्यभिचारात्, कस्यचिदल्पसत्त्वस्याविवेकिनो वा शुभाध्यवसायानुपपत्तेः, दृश्यते च कीाद्यर्थमपि सत्त्वानां द्रव्यस्तवे प्रवृत्तिरिति, शुभाध्यवसायभावेऽपि तस्यैव भावस्तवत्वादितरस्य च तत्कारणत्वेनाप्रधानत्वमेव, फलप्रधानास्समारम्भाइति न्यायात्, भावस्तव एव च सति तत्त्वतस्तीर्थस्योन्नतिकरणम्,भावस्तव एव तँस्य सम्यगमरादिभिरपि पूज्यत्वमेनं(त्त्वात्तमेव च) दृष्ट्वा क्रियमाणमन्येऽपि सुतरां प्रतिबुध्यन्ते शिष्टा इति स्वपरानुग्रहोऽपीहैवेति गाथार्थः॥ 193 // आह- यद्येवं किमयं द्रव्यस्तव एकान्तत एव हेयो वर्तते? आहोस्विदुपादेयोऽपि?, उच्यते, साधूनां हेय एव, श्रावकाणामुपादेयोऽपि, तथा चाह भाष्यकार: भा०- अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो।संसारपयणुकरणो दव्वथए कूवदिटुंतो // 194 / / अकृत्स्नं प्रवर्तयतीति संयममिति सामर्थ्यागम्यते अकृत्स्नप्रवर्तकास्तेषाम्, विरताविरतानां इति श्रावकाणां एष खलु युक्तः एष- द्रव्यस्तवः खलुशब्दस्यावधारणार्थत्वात् युक्त एव, किम्भूतोऽयमित्याह- संसारप्रतनुकरणः संसारक्षयकारक इत्यर्थः, Oभावस्तववत एव। // 869 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy