SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 868 // स्तव, स्तवस्य च भाष्यः सद्गुणानामुत्कीर्तना उत्- प्राबल्येन परया भक्त्या कीर्तना- संशब्दना यथा- प्रकाशितं यथैकेन, त्वया सम्यग् जगत्त्रयम्।। २.द्वितीयसमग्रैरपि नो नाथ!, परतीर्थाधिपैस्तथा॥१॥ विद्योतयति वा लोकं, यथैकोऽपि निशाकरः। समुद्गतः समग्रोऽपि, किं तथा तारकागणः? मध्ययनम् चतुर्विंशति॥२॥इत्यादिलक्षणो, भाव इति द्वारपरामर्शोभावस्तव इति गाथार्थः॥१९१॥ इह चालितप्रतिष्ठापितोऽर्थः सम्यग्ज्ञानायालमिति, चालनांच कदाचिद्विनेयः करोति कदाचित्स्वयमेव गुरुरिति, उक्तंच-कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा कहेंति आयरिया / नियुक्तिः |1056 इत्यादि, यतश्चात्र वित्तपरित्यागादिना द्रव्यस्तव एव ज्यायान् भविष्यतीत्यल्पबुद्धीनामाशङ्कासम्भव इत्यतस्तव्युदासार्थं / चतुर्विंशते: तदनुवादपुरस्सरमाह निक्षेपाः। भा०-दव्वथओ भावथओ दव्वथओ बहुगुणत्ति बुद्धि सिआ।अनिउणमइवयणमिणं छज्जीवहिअंजिणा बिंति // 19 // द्रव्यस्तवो भावस्तव इत्यत्र द्रव्यस्तवो बहुगुणः प्रभूततरगुण इति एवं बुद्धिः स्याद्, एवं चेत् मन्यसे इत्यर्थः, तथाहि- 192-193 किलास्मिन् क्रियमाणे वित्तपरित्यागाच्छुभ एवाध्यवसायस्तीर्थस्य चोन्नतिकरणं दृष्ट्वा च तं क्रियमाणमन्येऽपि प्रतिबुद्ध्यन्त इति स्वपरानुग्रहः, सर्वमिदंसप्रतिपक्षमिति चेतसि निधाय द्रव्यस्तवो बहुगुण इत्यस्यासारताख्यापनायाऽऽह-अनिपुणमतिवचनमिद मिति, अनिपुणमतेर्वचनं अनिपुणमतिवचनम्, इदमिति यद् द्रव्यस्तवो बहुगुण इति, किमित्यत आह-षड्जीवहितं. जिना ब्रुवते षण्णां- पृथिवीकायादीनां हितं जिना:- तीर्थकरा ब्रुवते, प्रधानं मोक्षसाधनमिति गम्यते // किं च षड्जीवहितमित्यत आह___ भा०- छज्जीवकायसंजमुदव्वथए सो विरुज्झई कसिणो। तो कसिणसंजमविऊ पुप्फाईअंन इच्छंति // 193 // क्वचित्पृच्छति शिष्यः कुत्रचिदपृष्टाः कथयन्त्याचार्याः। // 868 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy