SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 867 // विशेषणार्थत्वादिदमित्थमवसेयम्, तत्रापि चतुर्विंशतः षट्कः स्तवस्य चतुर्विधो भवति, तुशब्दादध्ययनस्य चेतिगाथासमासार्थः // 1056 ॥अवयवार्थं तु भाष्यकार एव वक्ष्यति, तत्राऽऽद्यावयवमधिकृत्य निक्षेपोपदर्शनायाह भा०- नाम ठवणा दविए खित्ते काले तहेव भावे / चउवीसइस्स एसो निक्खेवो छव्विहो होइ॥१९०॥ तत्र नामचतुर्विंशतिर्जीवादेश्चतुर्विंशतिरिति नाम चतुर्विंशतिशब्दोवा, स्थापनाचतुर्विंशति चतुर्विंशतीनां केषाश्चित्स्थापनेति, द्रव्यचतुर्विंशति चतुर्विंशतिर्द्रव्याणि सचित्ताचित्तमिश्रभेदभिन्नानि, सचित्तानि द्विपदचतुष्प(दाप)दभेदभिन्नानि, अचित्तानि कार्षापणादीनि, मिश्राणि द्विपदादीन्येव कटकाद्यलङ्कतानि, क्षेत्रचतुर्विंशतिर्विवक्षया चतुर्विंशतिः क्षेत्राणि भरतादीनि क्षेत्रप्रेदेशा वा चतुर्विंशतिप्रदेशावगाढं वा द्रव्यमिति, कालचतुर्विंशतिश्चतुर्विंशतिसमयादय इति एतावत्कालस्थिति वा द्रव्यमिति, भावचतुर्विंशतिश्चतुर्विंशतिभावसंयोगाश्चतुर्विंशतिगुणकृष्णं वा द्रव्यमिति, चतुर्विंशतेरेष निक्षेपः षड्विधो भवतिषट्प्रकारो भवति, इह च सचित्तद्विपदमनुष्यचतुर्विंशत्याऽधिकार इति गाथार्थः॥१९०।। उक्ता चतुर्विंशतिरिति, साम्प्रतं स्तवः प्रतिपाद्यते, तत्र___भा०- नामंठवणा दविए भावे अथयस्स होइ निक्खेवो। दव्वथओ पुष्फाई संतुगुणुक्लित्तणा भावे / / 191 // तत्र नामे ति नामस्तवः स्थापने ति स्थापनास्तवः द्रव्य इति द्रव्यविषयो द्रव्यस्तवः, भावे चेति भावविषयश्च भावस्तव इत्यर्थः, इत्थं स्तवस्य भवति निक्षेपो न्यासः, तत्र क्षुण्णत्वान्नामस्थापने अनादृत्य द्रव्यस्तवभावस्तवस्वरूपमेवाह- द्रव्यस्तवः पुष्पादिरिति, आदिशब्दाद् गन्धधूपादिपरिग्रहः, कारणे कार्योपचाराच्चैवमाह,अन्यथा द्रव्यस्तवः पुष्पादिभिः समभ्यर्चनमिति, तथा सद्गुणोत्कीर्तना भाव इति सन्तश्च ते गुणाश्च सद्गुणाः, अनेनासद्गुणोत्कीर्तनानिषेधमाह, करणे च मृषावाद इति, २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1056 चतुर्विंशते: स्तवस्य च निक्षेपाः। भाष्य: 190-191 // 867 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy