SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 866 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, | नियुक्तिः |1056 चतुर्विशतेः स्तवस्य च निक्षेपाः। प्रयच्छति सूत्रतोऽर्थतश्च, स च अध्ययनसमुदायरूपो वर्तते, यत उक्तं- एत्तो एक्कक्कं पुण, अज्झयणं कित्तइस्सामिप्रथमाध्ययन च सामायिकमुपदर्शितम्, इदानीं द्वितीयावयवत्वाद् द्वितीयावयवत्वस्य चाधिकारोपन्यासेन सिद्धिः आचार्यवचनप्रामाण्याद्, उक्तं च-सावज्जजोगविरई उक्तित्तणे त्यादि, अतो द्वितीयमुपदय॑ते, यथा हि किल युगपदशक्योपलम्भपुरुषस्य दिदृक्षोः क्रमेणाङ्गावयवानि दर्श्यन्ते एवमत्रापि श्रुतस्कन्धपुरुषस्येति कारणम्, इदमेव चोद्देशसूत्रेष्वपि योजनीयम्, इदमेव सर्वाध्ययनेष्वपि कारणं द्रष्टव्यम्, न पुनर्भेदेन वक्ष्याम इत्यलं विस्तरेण / सम्बन्ध उच्यते- अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने सावद्ययोगविरतिलक्षणंसामायिकमुपदिष्टम्, इह तु तदुपदेष्ट्रणामर्हतामुत्कीर्तनं कर्तव्यमिति प्रतिपाद्यते, यद्वा सामायिकाध्ययने तदासेवनात्कर्मक्षय उक्तः, यत उक्तं निरुक्तिद्वारे- सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही। अविवजओ सूदिछित्ति एवमाई निरुत्ताई॥१॥ति, इहापिचतुर्विंशतिस्तवेऽर्हद्गुणोत्कीर्तनरूपाया भक्तेस्तत्त्वतोऽसावेव प्रतिपाद्यते, वक्ष्यति च-भत्तीऍजिणवराणं खिज्जंती पुव्वसंचिया कम्मत्तीत्यादि, एवमनेन सम्बन्धेनाऽऽयातस्य सतोऽस्य चतुर्विंशतिस्तवाध्ययनस्य चत्वार्यनुयोगद्वाराणि सप्रपञ्चं वक्तव्यानि, तत्र नामनिष्पन्ने निक्षेपे चतुर्विंशतिस्तवाध्ययनमिति / इह चतुर्विंशतिस्तवाध्ययनशब्दाः प्ररूप्याः, तथा चाह नि०- चउवीसइत्थयस्स उणिक्खेवो होइ णामणिप्फण्णो। चउवीसइस्स छक्को थयस्स उचउव्विहो होइ॥१०५६॥ चतुर्विंशतिस्तवस्य तु निक्षेपो भवति नामनिष्पन्नः, क इत्यन्यस्याश्रुतत्वादयमेव यदुत- चतुर्विंशतिस्तव इति, तुशब्दस्य Oअतोऽनन्तरमेकैकं पुनरध्ययनं कीर्तयिष्यामि। 0 उपदय॑ते इत्यनेन सम्बन्धः। सावद्ययोगविरतिरुत्कीर्तनम्। अवान्तरावयवभूतेषु। सम्यग्दृष्टिरमोहः शोधिः सद्भांवो दर्शनं बोधिः। अविपर्ययःसुदृष्टिरिति एवमादीनि निरुक्तानि ॥१॥कर्मक्षयः। ॐ भक्तेर्जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि / // 866 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy