SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ योऽनाभोगेन दीक्षितः स आभोगित्वे सति व्युत्सृज्यते, तथा चाह-वोसिरणं तु नपुंसे त्ति व्युत्सृजनं- परित्यागरूपं नपुंसके, कर्तव्यमिति वाक्यशेषः, तुशब्दोऽनाभोगदीक्षित इति विशेषयति, सेसे कालं पडिक्खिज्ज त्ति शेषः कारणदीक्षितो जड्डादिर्वा, तत्र काल न्ति यावता कालेन कारणसमाप्तिर्भवत्येतावन्तं कालं जड्डादौ वक्ष्यमाणं च प्रतीक्ष्येत, न तावव्युत्सृजेत् इति गाथाक्षरार्थः॥१॥ अथ किं तत्कारणं येनासौ दीक्ष्यत इति?, तत्रानेकभेदं कारणमुपदर्शयन्नाह असिवे ओमोयरिए रायदुढे भए व आगाढे / गेलन्ने उत्तिमट्टे नाणे तवदंसणचरित्ते // नि०१२॥ अशिवं व्यन्तरकृतं व्यसनं अवमौदर्य दुर्भिक्षं राजद्विष्टं राजा द्विष्ट इति भयं प्रत्यनीकेभ्यः आगाढं भृशम्, अयं चागाढशब्दः प्रत्येकमभिसम्बध्यते अशिवादिषु ग्लानत्वंग्लानभावः उत्तमार्थः कालधर्मः, ज्ञानं श्रुतादि तथा दर्शनं तत्प्रभावकशास्त्रलक्षणं चारित्रं प्रतीतम्, एतेष्वशिवादिषूपकुरुते यो नपुंसकादिरसौ दीक्ष्यत इति, उक्तं च-रायदुट्ठभएसुंताणट्ठ णिवस्स वाऽभिगमणट्ठा। वेजो व सयं तस्स व तप्पिस्सइ वा गिलाणस्स // 1 // गुरुणोव्व अप्पणो वा णाणाई गिण्हमाणि तप्पिहिई। अचरणदेसा णिन्ते तप्पे ओमासिवेहिं वा॥ 2 // एएहि कारणेहिं आगाढेहिं तु जो उ पव्वावे। पंडाई सोलसयं कए उ कज्जे विगिंचणया॥३॥जो सो असिवाइकारणेहिं पव्वाविजइ नपुंसगोसो दुविहो-जाणओय अजाणओय, जाणओजाणइजह साहूर्णन वट्टइ नपुंसओ / 0 राजद्विष्टभयेषु त्राणार्थाय नृपस्य वाऽभिगमनार्थम् / वैद्यो वा स्वयं तस्य वा प्रतिजागरिष्यति वा ग्लानम्॥ 1 // गुरोर्वाऽऽत्मनो वा ज्ञानादि गृह्णतस्तय॑ति / अचरणदेशान्निर्गच्छतः तय॑ति अवमाशिवेषु वा // 2 // एतेष्वागाढेषु कारणेषु तु यस्तु प्रव्राजयति। पण्डादि षोडशकं कृते तु कार्ये विवेकः // 3 // यः सोऽशिवादिकारणैः प्रव्राज्यते नपुंसकः स द्विविधः- ज्ञायकोऽज्ञायकश्च, ज्ञायको जानाति यथा साधूनां न कल्पते नपुंसकः 4. चतुर्थमध्ययनम् प्रतिक्रमणं, | 4.2 पारिष्ठापनिकानियुक्तिः। नि०१२ पञ्चेन्द्रियादि पारिस्थापनिका विधिः। // 1108 // // 1108 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy