SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1090 // भाषणं एषणा गवेषणादिभेदा शङ्कादिलक्षणा वा तस्यां समितिरेषणासमितिस्तया, उक्तं च- एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्धं ग्राह्य मिति, आदानभाण्डमात्रनिक्षेपणा समितिः, भाण्डमात्रे आदाननिक्षेपविषया समितिः सुन्दरचेष्टेत्यर्थः, तया, इह च सप्त भङ्गा भवन्ति-पत्ताइ न पडिलेहइ, ण पमज्जइ, चउभंगो, तत्थ चउत्थे चत्तारि गमा-8 दुप्पडिलेहियं दुप्पमज्जियं चउभंगो, आइल्ला छ अप्पसत्था, चरिमो पसत्थो, उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिस्थापनिका तद्विषया समितिः सुन्दरचेष्टेत्यर्थः, तया, उच्चारः- पुरीषम्, प्रश्रवणं-मूत्रम्, खेल:- श्लेष्मा, सिङ्घानं-नासिकोद्भवः श्लेष्मा, जल्ल:- मलः, अत्रापि त एव सप्त भङ्गा इति, इह च उदाहरणानि, ईरियासमिईए उदाहरणं एगोसाहूईरियासमिईए जुत्तो, सक्स्स आसणंचलियं, सक्केण देवमज्झे पसंसिओ मिच्छादिट्ठी देवो असद्दहतो आगओ मच्छियप्पमाणाओ मंडुक्कलियाओ विउव्वइ पच्छओ य हत्थी, गईण भिंदइ, हत्थिणा उक्खिविय पाडिओ, न सरीरं पेहइ, सत्ता मे मारियजीवदयापरिणओ। अहवा ईरियासमिईए अरहण्णओ, देवयाए पाओ छिण्णो, अण्णाए संधिओ // भासासमिईए- साहू, भिक्खट्ठा नयररोहए कोइ निग्गंथो बाहिं कडए हिडंतो केणइ पुट्ठो- केवइय आसहत्थी तह निचयो दारुधन्नमाईणं / णिव्विण्णाऽनिविण्णा नागरया बेंति मं समिओ॥१॥ बेइण जाणामोत्ति सज्झायझाणजोगवक्खित्ता। पात्रादि न प्रतिलिखति न प्रमार्जयति, चतुर्भङ्गिका, तत्र चतुर्थे चत्वारो गमाः- दुष्प्रतिलेखितं दुष्प्रमार्जितं चतुर्भङ्गी,आद्याः षट् अप्रशस्ताः, चरमः प्रशस्तः। Oएकः साधुरीर्यासमित्या युक्तः, शक्रस्यासनं चलितम्, शक्रेण देवमध्ये प्रशंसितः, मिथ्यादृष्टिदेवोऽश्रद्दधान आगतो मक्षिकाप्रमाणा मण्डूकिका विकुर्वति पृष्ठतश्च हस्ती, गतिं न भिनत्ति, हस्तिनोत्क्षिप्य पातितः, न शरीराय स्पृहयति, सत्त्वा मया मारिता इति जीवदयापरिणतः॥ अथवेर्यासमितावरहन्नकः, देवतया पादश्छिन्नः, अन्यया संहितः / भाषासमिती- साधुः, भिक्षार्थ नगररोधे कोऽपि निर्ग्रन्थो बहिः कटके हिण्डमानः केनचित् पृष्टः- कियन्तोऽश्वा हस्तिनस्तथा निचयो दारुधान्यादीनाम् / निर्विण्णा अनिर्विण्णा नागरकाः? ब्रुवत इदं समिताः॥ 1 // ब्रुवति न जानाम इति स्वाध्यायध्यानयोगव्याक्षिप्ताः। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। सूत्रम् 20(21) पडिपंचहिं कामगुणेहिं इर्यासमित्यादि दृष्टान्ताः / // 1090 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy