________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.1 ध्यानशतकम्। वृत्तियुतम् भाग-३ // 1082 // सूत्रम् 19(20) पडि०पंचहि किरियाहिं। निर्वृत्ता कायिकी तया, सा पुनस्त्रिधा- अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी, (च) तत्र मिथ्यादृष्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी- उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्प्रणिहितकायिकी प्रमत्तसंयतस्य, सा पुनर्द्विधा- इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च, तत्राऽऽद्येन्द्रियैः- श्रोत्रादिभिर्दुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाsप्रमत्तसंयतस्य- उपरतस्य- सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी 1, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणं- अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता- अधिकरणिकी तया, सा पुनर्द्विधा- अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहःपशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खड्गादिनिर्वर्तिनी, अलमन्यैरुदाहरणैः नयोरेवान्त:पातित्वात्तेषाम्, गताऽऽधिकरणिकी 2, प्रद्वेषः- मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेषिकी च, आद्या जीवे प्रद्वेषं गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया 3, परितापनंताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी तया, असावपि द्विधैव- स्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपिस्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीया परहस्तेन कारयतः, गता चतुर्थी 4, प्राणातिपात:- प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा- स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गा