________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1078 // चालिज्जइ बीभेइ य धीरोन परीसहोवसग्गेहिं / सुहमेसुन संमुज्झइ भावेसुन देवमायासु॥सू० गा०९१॥ चाल्यते ध्यानात् न परीषहोपसगैर्बिभेति वा धीरः बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गम्, सूक्ष्मेषु अत्यन्तगहनेषु न संमुह्यते न सम्मोहमुपगच्छति, भावेषु पदार्थेषु न देवमायासु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाथाक्षरार्थः / / 91 // देहविवित्तं पेच्छइ अप्पाणं तह य सव्वसंजोगे। देहोवहिवोसग्गं निस्संगो सव्वहा कुणइ ॥सू० गा०९२॥ देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गम्, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति व्युत्सर्गलिङ्गमिति गाथार्थः ॥९२॥गतं लिङ्गद्वारम्, साम्प्रतं फलद्वारमुच्यते, इह चलाघवार्थं प्रथमोपन्यस्तं धर्मफलमभिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वाद्, अत आह होति सुहासवसंवरविणिज्जरामरसुहाई विउलाई। झाणवरस्स फलाइंसुहाणुबंधीणि धम्मस्स / / सू० गा०९३॥ ___ भवन्ति शुभाश्रवसंवरविनिर्जरामरसुखानि शुभाश्रवः-पुण्याश्रवः संवरः- अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमरसुखानि- देवसुखानि, एतानि च दीर्घस्थितिविशुद्ध्युपपाताभ्यां विपुलानि विस्तीर्णानि, ध्यानवरस्य ध्यानप्रधानस्य फलानि शुभानुबन्धीनि सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्याकेवलशैलेश्यपवर्गानुबन्धीनि धर्मस्य ध्यानस्येति गाथार्थः // 13 // उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह ते य विसेसेण सुभासवादओऽणुत्तरामरसुहं च / दोण्हं सुक्काण फलं परिनिव्वाणं परिल्लाणं ।।सू० गा०९४॥ तेच विशेषेण शुभाश्रवादयः अनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः परिनिर्वाणं मोक्षगमनं परिल्लाणं ति चरमयोर्द्वयोरिति गाथार्थः॥ 94 // अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 91-92 शुक्लस्यक्षान्ताद्यालम्बनानि। सूगा० 93-94 धर्मशुक्लफलानि उपसंहारश्च। // 10 //