________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सूगा० 85-86 शुक्लस्य भाग-३ // 1076 // लम्बनानि। यथा छद्मस्थस्य मनः, किं?- ध्यानं भण्यते सुनिश्चलं सत्, तथा तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः // 84 // आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेऽपिच सर्वभावप्रसङ्गः, तत्र का वार्तेति?, उच्यते फुवप्पओगओ चिय कम्मविणिज्जरणहेउतो यावि।सद्दत्थबहुत्ताओ तह जिणचंदागमाओय // सू० गा० 85 // चित्ताभावेवि सया सुहुमोवरयकिरियाइ भण्णंति / जीवोवओगसब्भावओ भवत्थस्स झाणाई।सू० गा० 86 / / काययोगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सूक्ष्मोपरतक्रियो भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियाऽनिवर्तिनो ग्रहणम्, उपरतग्रहणाव्युपरतक्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतुः, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः, यथा / क्षान्ताधाचक्रं भ्रमणनिमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावात् भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णयप्रथमहेतुसम्भावनार्थः, चशब्दस्तु प्रस्तुतहेत्वनुकर्षणार्थः, एवं शेषहेतवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते- कर्मविनिर्जरणहेतुतश्चापि कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चशब्दः प्रस्तुतहेतुत्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, तथा शब्दार्थबहुत्वात् यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः एवं ध्यानशब्दस्यापिन विरोधः, ध्यै चिन्तायां ध्यै कायनिरोधे ध्यै अयोगित्वे इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवमिति, उक्तं च-आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम्। // 1076 // अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये॥१॥इत्यादिगाथाद्वयार्थः॥८५-८६॥उक्तं ध्यातव्यद्वारम्, ध्यातारस्तु धर्मध्यानाधिकारः एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते