SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1075 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, ४.१ध्यानशतकम्। सू०गा० 82-84 क्षान्ताद्यालम्बनानि। निर्वाणगमनकाले मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोवाग्योगद्वये निरुद्ध सति अर्द्धनिरुद्धकाययोगस्य, किं?सूक्ष्मक्रियाऽनिवर्ति सूक्ष्मा क्रिया यस्य तत्तथा सूक्ष्मक्रियं च तदनिवर्ति चेति नाम, निवर्तितुं शीलमस्येति निवर्ति प्रवर्द्धमानतरपरिणामात् न निवर्ति अनिवर्ति तृतीयम्, ध्यानमिति गम्यते, तनुकायक्रियस्येति तन्वी उच्छ्वासनिःश्वासादिलक्षणा कायक्रिया यस्य स तथाविधस्तस्येति गाथार्थः।। 81 // तस्सेव य सेलेसीगयस्स सेलोव्व णिप्पकंपस्स / वोच्छिन्नकिरियमप्पडिवाइज्झाणं परमसुक्कं ॥सू० गा०८२॥ तस्यैव च केवलिनः शैलेशीगतस्य शैलेशी-प्राग्वर्णिता तांप्राप्तस्य, किंविशिष्टस्य?-निरुद्धयोगत्वात् शैलेश इव निष्प्रकम्पस्य / शुक्लस्यमेरोरिव स्थिरस्येत्यर्थ :, किं?- व्यवच्छिन्नक्रियं योगाभावात् तद् अप्रतिपाति अनुपरतस्वभावमिति, एतदेव चास्य नाम ध्यानं परमशुक्लं- प्रकटार्थमिति गाथार्थः / / 82 // इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह पढमं जोगेजोगेसुवा मयं बितियमेव जोगंमि / तइयं च कायजोगे सुक्कमजोगंमि य चउत्थं ॥सू० गा० 83 // प्रथमं पृथक्त्ववितर्कसविचारं योगे मनआदौ योगेषु वा सर्वेषु मतं इष्टम्, तच्चागमिकश्रुतपाठिनः, द्वितीयं एकत्ववितर्कमविचार तदेकयोग एव, अन्यतरस्मिन् सङ्कमाभावात्, तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लं अयोगिनि च शैलेशीकेवलिनि चतुर्थं व्युपरतक्रियाऽप्रतिपातीति गाथार्थः // 83 // आह-शुक्लध्यानोपरिमभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः ध्यै चिन्ताया मिति पाठात्, तदेतत्कथं?, उच्यते जह छउमत्थस्स मणो झाणं भण्णइ सुनिच्चलो संतो। तह केवलिणो काओ सुनिच्चलो भन्नए झाणं ॥सू० गा० 84 // // 1075 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy